________________
किरीटादिलक्षणम् ] षोडशोऽध्यायः ।
तत्पूरितादधोनालं बाहुमित्यावृतं तु वा। . त्रिचतुष्पञ्चमात्रं वा पत्रपूरितविस्तृतम् ॥ २४ ॥ तद्यासार्धं तु तत्तुङ्गं पादोनद्विगुणं तु वा । द्विगुणं वापि कर्तव्यं तद् बाहुवलयं भवेत् ॥ २५ ॥ मध्यागुलं विना शेषा अङ्गुला मुद्रिकान्विताः। मुद्रिकामूलपर्वस्था वृत्ता यवधनान्विताः ॥ २६॥ रत्नचित्रविचित्रा वा तत्तद्योग्यं समाचरेत् । मध्याङ्गुलाग्रमभये चूचुकोर्ध्वसमं भवेत् ॥ २७ ॥ तर्जन्यादिकनिष्ठान्तास्तुल्यमूलास्तु वक्रिताः । ईषद् वक्रितमगुष्ठमूर्खाग्रं तु बहिर्मुखम् ॥ २८ ॥ तथैव वरदं कृत्वा मणिबन्धकटौ पुनः। मध्याङ्गुलाग्रमालम्ब्य मेदाग्रान्तं बहिर्मुखम् ॥ २९॥ तदेव सिंहकर्णाख्यं तलमध्यगतं यदि। मध्यागुलाग्रं वक्राभं तदुपान्तगतं तथा ॥ ३०॥ अनामिकाग्रं शेषाः स्युः पूर्ववत् परिकल्पिताः। अभयाकारमालम्ब्य हस्तमूरौ समर्पितम् ॥ ३१ ॥ यदि तत् कटकं प्रोक्तं मणिबन्धं तूरुबाह्यतः । एकद्विव्यङ्गुलाद् बाह्ये कर्तव्यं बुद्धिमत्तमैः ।। ३२ ॥ हिकासूत्रसमं मध्यमाग्रमूर्ध्वाननं करम् । बहिर्मुखं कर्तरी सा शङ्खचक्रादिसंयुता ॥ ३३ ॥ वक्रौ त्वनामिकाङ्गुष्ठौ तलमध्यगतौ पुनः । किञ्चिद् वक्रा कनिष्ठा सा द्वावन्यावप्यूजुक्रियौ ॥ ३४॥ १. 'माः', २. 'ल्पयेत् ' क. ग. पाठः,