________________
शिल्परले
[उत्तरभागः त्रिपञ्चसप्तसङ्घस्तु करण्डैश्व विराजितम् । करण्डमकुटं कार्यमन्यत् सर्व यथापुरम् ॥ १३ ॥ त्रिचतुष्पश्चमात्र स्यात् पत्रकुण्डलविस्तृतम् । यवं वृत्तघनं प्रोक्तं श्वेताभं वात्र चार्तवम् ॥१४॥ मकरं कुण्डलं वाथ सिंहकुण्डलमव वा । गजादिकुण्डलं वाथ द्विचतुष्पश्चमात्रकम् ॥ १५ ॥ कुर्याद् व्यासं च तुङ्गं च तत्तदाकारभेदतः । वृत्तकुण्डलविस्तारमष्टादशयवं भवेत् ॥ १६ ॥ वेदाङ्गुलं तु तत्तुङ्गं रम्भाब्जमुकुलोपमम् । हिक्कासूत्रोपरिष्टात्तु उपग्रीवं तु बन्धयेत् ॥ १७ ॥ रुद्राक्षं वाथ रत्नं वा हेमक्लप्तमणिं तु वा । नानाचित्रविचित्रं तु ग्रैवेयं वा यथोचितम् ॥ १८ ॥ कटकं वलयोपेतं प्रकोष्ठे तु प्रकल्पयेत् । कनिष्ठाङ्गुलिपरीणाहं वलयं वर्तुलं तु वा ॥ १९ ॥ अथवा वलयस्यैव घनं द्वित्रियवं तु वा । धनद्विगुणविस्तारं नानारत्नविचित्रितम् ।। २० ।। युगलं युगलं तत्तु प्रकोष्ठेषु प्रकल्पयेत् । केयूरं कोर्परादूचे वलयोक्तधनान्वितम् ।। २१ । एकाकारं तु केयूरं साष्टपादाब्जसंयुतम् । नानारत्नसमायुक्तं शैवलाभमथापि वा ॥ २२ ॥ पत्रपूरितसंयुक्तं बाहुमध्ये प्रकल्पयेत् । पत्रपूरितनालं तु केयूरसदृशं धनम् ॥ २३ ॥