________________
किरीयदिलक्षणम् ] षोडशोऽध्यायः । कुर्यात् किरीटं शिखरैरुपेतं त्रिपञ्चसप्तप्रमितैर्यथाईम् । अण्डोपमं वा कमलोपमं वा छत्रोपमं वा कमठोपमं वा॥२॥ युग्मसङ्ख्या जटा कार्या उभयोः पार्श्वयोः पृथक् । द्वात्रिंशन्मात्रमारभ्य अथैकाङ्गुलवृद्धितः ॥ ३ ॥ एकषष्टयङ्गुलान्तं तु जटादीर्घमुदाहृतम् । अधोजटा दीर्घतमास्तस्मादूोर्ध्वगास्तथा ॥ ४॥ क्रमान्न्यूना तु कर्तव्या तदहेंषु समान्तरा । कनिष्ठाङ्गुलपरीणाहं जटानाहमुदाहृतम् ॥ ५ ॥ जटामकुटतुङ्गं तु चतुर्विंशाङ्गुलं तु वा। एकविंशाङ्गुलं वाथ कुर्योदष्टादशाङ्गुलम् ॥ ६ ॥ सप्तादशाङ्गुलं वाथ षोडशाङ्गुलमेव वा । केशान्तान्मकुटान्तं तु ललाटे पट्टसंयुतम् ॥७॥ मुखान्तव्याससदृशं मकुटस्य विशालकम् । तुङ्गाध वा त्रिपादं वा यथाशोभं प्रकल्पयेत् ॥ ८ ॥ तत्सप्ताष्टनवांशैकहीनमग्रविशालकम् । चतुष्पूरिमसंयुक्तं भान्वंशं पूरिमोदयम् ॥ ९ ॥ शम्भौ जटायां कर्तव्या मूर्ध्नि गङ्गा प्रमाणतः। भान्वङ्गुलायता वाथ षोडशांशसमुच्छ्रया ॥ १० ॥ हृदयेऽञ्जलिसंयुक्ता प्रोक्तस्त्रीलक्षणान्विता । किरीटमकुटं चैव केशं वा तत्र कल्पयेत् ॥ ११ ॥ मूलादग्रं क्रमात् क्षीणं करण्डमकुटस्य तु । अग्रस्य मुकुलाकारं मकुटस्य प्रकल्पयेत् ॥ १२ ॥ .