________________
षोडशोऽध्यायः ।
उत्तरभागः गुणांशं नलकातारं षडंशं तलविस्तृतम् । पाणिव्यासं युगांशं स्याच्छेषं युक्त्या प्रकल्पयेत् ॥११॥
.. अथ मध्यमं चतुस्तालम् । उष्णीषं चैकभागेन केशान्तं च तथा भवेत् । वस्वशं तु मुखायाम गलमश्व्यंशमेव च ॥ १२ ॥ हिक्कादिहृदयान्तं तु पंडङ्गलमुदाहृतम् । हृदयान्मेपर्यन्तं षडङ्गुलमुदाहृतम् ॥ १३ ॥ दशांशमूरुदीर्घ स्याद् द्यगुलं जानुतुङ्गता। जङ्घादीर्घ तुरुतुल्यं द्विभागं चरणोदयम् ॥ १४ ॥ मन्वंशं तु करायाम मध्यमाङ्गलिसीमकम् । शेषं युक्त्या तु कर्तव्यमुक्तमार्गानुसारतः ॥ १५ ॥ त्रिोकतालमेयानां प्रतिमानां विचक्षणः।. अङ्गोपाङ्गादिमानानि प्रोनयेत् पूर्वशास्त्रतः ॥ १६ ॥ इति शिल्परत्ने उत्तरभागे चतुस्तालविधिर्नाम
पञ्चदशोऽध्यायः ॥
अथ षोडशोऽध्यायः ।
अथ किरीटादिलक्षणम् । अत्रैकाङ्गुलसम्मितेन परिवेष्टयोष्णीषपट्टेन के .
कोटीरं मकुटोज्ज्वलं विरचयेदष्टाङ्गलैः सर्वतः । घ्यष्टाभिधृतिसम्मितैर्दिनकरद्वन्द्वप्रमैरङ्गुलै
रुष्णीषोपरि भासमानमकुटोपेतं किरीटं हरौ ॥ १ ॥ १. 'ध्यं' ख. पाठः. २. 'रसागु' ख. ग. पाठः,