________________
अथ पञ्चदशोऽध्यायः।
अथ चतुस्तालम् । एकाकुलं शिरोन्मानं केशान्तं चैव तत्समम् । हिभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥ १॥ गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणाकुलम् । हिकासूत्रात् स्तनान्तं तु नवभागमुदाहृतम् ॥ २ ॥ स्तनो(स्तु ?त्तु) मेमूलान्तं सेप्तमात्रमिति स्मृतम् । भान्वंशमूरुदीर्घ स्याज्जानु द्वथङ्गुलमेव हि ॥ ३ ॥ जङ्कादीर्घ दशांशं तु द्वयंशं पादतलोन्नतम् । दशांशोऽध्रितलायामो बाहुमन्वंशकं स्मृतम् ॥ ४ ॥ प्रकोष्ठं तु दशांशं स्यात् तलं वेदाङ्गलायतम् । युगांशं मध्यमायाम सार्धाग्न्यंशमनामिका ॥५॥ तत्सम तर्जनीदीर्घ कनिष्ठायां गुणागुलम् । अङ्गुष्ठायाममग्न्यंशं + + + तलविस्तृतम् ॥ ६ ॥ प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरगुलम् । भूतांशं बाहुमूलस्य विस्तारं समुदाहृतम् ॥ ७ ॥ सार्धाष्टांशं मुखव्यासं सप्तांशं कण्ठविस्तृतम् । कक्षयोरन्तरव्यासं त्रयोदशाङ्गुलं भवेत् ॥ ८ ॥ भान्वंशं हृदि विस्तारं रुद्रांशं मध्यविस्तृतम् । श्रोणिस्थाने तु भान्वंशं कटौ विश्वाङ्गुलं स्मृतम् ॥ ९॥ उरुमूलविशालं तु वस्वगुलमुदाहृतम् । षडशं जानुविस्तारं जङ्घामूलं युगाङ्गुलम् ॥ १०॥ १. 'नादेस्तु', २. 'पञ्चमा' ख. पाठः,