________________
शिल्परले
उत्तरभागः तथा सूचीति विख्याता कर्णसूत्रसमोन्नता। तर्जन्याग्रं तदा तत्र योजयेदकुशादिकम् ॥ ३५ ॥ अङ्गुष्ठानामिकामध्यमामुल्यस्तलमध्यगाः ।। किञ्चिद् वका कनिष्ठा सा तर्जन्यजुतरा भवेत् ॥३६॥ यज्ञोपवीतं सर्वेषां यवाष्टांशधनान्वितम् । उपवातं त्रिसूत्रायमुरस्सूत्रसमन्वितम् ॥ ३७ ॥ एकमेव झुरस्सूत्रमुपवीतधनान्वितम् । वामस्कन्धोपरिष्टात्तु नाभ्य(धो) द्वयङ्गुलान्ततः ॥ ३८ ॥ यज्ञोपवीतदीर्घ तु नाभेदक्षिणपार्श्वगम् । अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् ॥ ३९ ॥ ऊरु ? उरस्सूत्रं समालम्ब्य स्तनादष्टाङ्गुलान्तरे। यज्ञोपवीतवत् कार्य स्कन्धयोरुभयोरपि ॥४०॥ पार्श्वयोश्चैव योन्यूचे चन्नवीरमिदं विदुः । हिक्कात् षडगुलाधस्तात् स्तनयोर्मध्यदेशतः॥४१॥ ग्रैवेयहारमाख्यातं वेदमात्रवितानकम् । यवत्रयं धनं तस्य नानामणिहिरण्मयम् ॥ ४२ ॥ कण्ठादुदरबन्धान्तमक्षमालां प्रकल्पयेत् । हृन्मालेति प्रसिद्धा सा स्कन्धमालां च कारयेत् ॥४३॥ नानापुष्पमयी स्कन्धदेशे सा सम्प्रकीर्तिता । कटिसूत्र त्रिभिः सूत्रैः सूत्रं प्रति यवं धनम् ॥ ४४ ॥ कटिसन्ध्योपरिष्टात्तु रत्नचित्रितमाचरेत् । मेदादधः कृत्तिमास्यं पञ्चपट्सतमात्रकम् ।। ४५ ।।