________________
शिल्परले
[उत्तरभायः अथ चतुर्दशोऽध्यायः ।
अथ पश्चतालोनमेन विघ्नेश्वरलक्षणम् । मूर्भो मस्तकसीमान्तमङ्गुलद्वयमुच्यते । तस्माद् वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ १॥ ततोऽष्टमात्रमानं तु हनुसीमान्तमाततम् । गलं तु चतुरंशं स्यादाशांशं हृदयं ततः ॥ २ ॥ ततो नाभिस्ततो मेदूं नवांशामिति कथ्यते । ऊरू सार्धषडंशोचौ जानुनी गुणभागतः ॥ ३ ॥ जङ्घा चोरुसमायामा तलोत्सेधं गुणांशकम् । सप्ताङ्गुलं तलायाममगुष्ठाग्रावसानकम् ॥ ४ ॥ पादाङ्गुष्ठायतं यशं सार्धाशं तु कनिष्ठिका । तर्जन्यादिकनिष्ठान्तं प्रत्येकं यवहीनतः ॥ ५ ॥ त्रयोदशाङ्गुलं बाहुं कोष्ठायाम नवाङ्गुलम् । चतुर्मानं तलायाममग्न्यंशं मध्यमायतम् ॥ ६ ॥ तर्जन्यनामिके हे च एकविंशयवायते । सप्तोत्तरदशयवं दीर्घ ज्येष्ठकनिष्ठयोः ॥ ७॥ द्वादशाष्टनवाष्टांशयवा ज्येष्ठादिविस्तृतिः । तत्तद्यासत्रिपादं स्यानखव्यासमुदाहृतम् ॥ ८ ॥ तत्तद्यासस्य पादोनं नखायाम प्रकीर्तितम् । व्यासं प्रकोष्ठे वेदांशं कोपरोचे षडंशकम् ॥ ९ ॥ बाहुमूले तु वस्त्रंशं मस्तकेऽष्टाङ्गुलं ततः । सप्ताङ्गुलं निम्नदेशे मुखमध्ये दशाङ्गुलम् ॥ १० ॥