________________
षट्तालम् ]
त्रयोदशोऽध्यायः ।
तलायामं तु भूतांशं वेदांशं तस्य विस्तृतम् । तत्तलायामसदृशं मध्यमाङ्गुलिदीर्घकम् ॥ ५ ॥ शेषं प्रागुक्तमार्गेण कार्यमङ्गमशेषतः ॥ ५३ ॥ इति शिल्परत्ने उत्तरभागे सप्तताललक्षणं नाम द्वादशोऽध्यायः ॥
अथ त्रयोदशोऽध्यायः ।
अथ षट्तालम् । उष्णीषमर्धभागं स्यादेकांशं केशमानकम् | सार्धस्वङ्गुलं प्राग्वद् केशान्तानुसीमकम् ॥ १ ॥ गलोदयं त्रिभागार्थं मुखतुल्यमतः पृथक् । हिक्कादिहृदयान्तं च नाभ्यन्तं च ततः क्रमात् ॥ २ ॥ तस्मान्मेढ्रस्य मूलान्तमूरू चात्यष्टिभागतः । सार्वभागं जानुदीर्घ जङ्घा चोरुसमोन्नता ॥ ३ ॥
आगुल्फतलतुङ्गं तु सार्धभागमुदाहृतम् । ऊरुदीर्घसमं बाहुं कुर्याद् विश्वाङ्गुलं पुनः ॥ ४ ॥ प्रकोष्ठं भूतभागं तत्तलं मध्याङ्गुलं तथा । भास्कराङ्गुलमानेन कुर्यात् पादतलायतम् ॥ ५ ॥ पूर्वस्मायेत् सर्वमत्रानुक्तं विशारदः || ५३ ||
इति शिल्परत्ने उत्तरभागे षट्ताललक्षणं नाम त्रयोदशोऽध्यायः ||
१. 'ल' ग. पाठः. २. 'तुझं ज' ख. पाठः.
१