________________
७०
शिल्परले
[उत्तरभागः
साधग्न्यंशं गलोत्सेधं हिकादिहृदयान्तकम् । पादोनरुद्रभागं स्यात् तस्मान्नाभ्यन्तकं ततः ॥ ३ ॥ तथा तस्मान्मेढमूलमूरुदीर्घ पुनस्ततः । सार्धत्रिसप्तभागं तु जानुतुङ्गं गलोक्तवत् ॥ ४ ॥ जङ्घादीर्घे चोरुतुल्यं जानुतुल्यं तलोदयम् । बाहृोवोरुसमं दीर्घ प्रकोष्ठं तु कलांशकम् ॥ ५ ॥ बाह्वोस्तलं भूतभागं तत्समं मध्यमायतम् । अनुक्तं सकलं पूर्व नवतालोक्तमाचरेत् ॥ ६ ॥ इति शिल्परत्ने उत्तरभागे अष्टतालविधानं नाम एकादशोऽध्यायः ॥
अथ द्वादशोऽध्यायः । अथोत्तमं सप्ततालम् |
उष्णीषं त्वर्धभागेन केशान्तं शशिभागतः । सार्धयंशं तु नेत्रान्तं साधग्न्यंशं पुटान्तकम् ॥ १ ॥ चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् । स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥ २ ॥ तथैव योनिमूलान्तं विंशांशं चोरुदीर्घकम् | जानुमानं द्विभागं तु जङ्घा चोरुसमा भवेत् ॥ ३ ॥ चरणोचं द्विभागेन मन्वंशं तु तलायतम् । ऊरुदीर्घसमं बाहुं प्रकोष्ठं तु कलाङ्गुलम् ॥ ४ ॥