________________
पश्चतालम् ] चर्तुदशोऽध्यायः ।
मुखहस्तस्य मानं तु नाभिदेशसमायतम् । मूले षडङ्गुलं तारमग्रे साधांशमत्र हि ॥ ११ ॥ सुषिरद्वयसंयुक्तं कार्यं तद्धस्तमीरितम् । कण्ठादूर्ध्व गजेन्द्राभं मुखं कुर्याद् विचक्षणः ॥ १२ ॥ वामदन्तायतं वेदमात्रं दृश्यं हि बाह्यतः । दक्षदन्तं पादमानं भिन्नाकारं प्रकल्पयेत् ॥१३॥ अधरस्य तु निष्क्रान्तं लम्बनं च द्विमात्रकम् । (तैला ? ताल्वा)यामविशालं च षड्यवं परिकीर्तितम्
॥ १४ ॥ कर्णव्यासं भूतमात्रमुत्सेधं चैव तत्समम् । अर्धाङ्गुलं नतं तस्य कर्णमूलं द्विभागतः ॥ १५ ॥ बाहुपर्यन्तविस्तारो द्वात्रिंशदङ्गुलं भवेत् । . एकोनविंशदंशं तु कक्षान्तरमुदाहतम् ॥ १६ ॥ स्तनान्तरं दशांशं तु हिकायास्तहदेव हि । स्तनान्ताद् द्वियवं व्यासं झ्यङ्गुलं स्तनमण्डलम् ॥ १७ ॥ स्तनाधस्ताद् विशालं तु भागैः पञ्चदशान्वितैः। द्वाविंशदङ्गुलं ख्यातं जठरार्धे विशालकम् ॥ १८ ॥..... नाभेनिम्नविशालं तु सार्धाङ्गुलमुदाहृतम् । - ... लिङ्गायाम गुणांशं तु तदर्ध तस्य विस्तृतम् ॥ १९ ॥ मुष्कायामं विशालं च गुणाङ्गुलमुदाहृतम् । अरोासं तु भान्वंशं जानुव्यासं नवाङ्गुलम ॥ २० ॥ जङ्घामूलविशालं तु सप्तमात्रमुदाहृतम् । नलकाविस्तृतं चापि सार्धाग्न्य टिमुध्यते ॥ २१ ॥