________________
मध्यमं नवतालम्] नवमोऽध्यायः । मध्योद्भवाप्रथमपर्वयुगं समान
दैयं तदर्धपरिमाणमथाग्र्यपर्व ॥ ११ ॥ देशिन्युपावरजयोरमुतो द्विपांश
हीनानि पादरहितानि कनिष्ठिकायाः । पर्वाणि पर्वयुगलं क्रमशोऽथ तर्जा
मध्याद्यपर्वसुसमं प्रथमोद्भवायाः ॥ १२ ॥ स्वस्वायपर्वदलतो रचिता नखाः स्यु
र्नाहोऽङ्गुलैः श्रुतिमितैः प्रथमप्रसूतेः । मध्याद्विपार्श्वजनितावरजास्वतोऽतो
नाहोऽष्टमांशराहतो विहितः क्रमेण ॥ १३ ॥ अङ्गुष्ठतर्जनिकयोनयनाङ्गुलाढ्य
मभ्यन्तरं प्रथमजामणिबन्धमध्यम् । अब्ध्यङ्गुलैः परिमितं मणिबन्धकेऽपि
तैर्विस्तृतिः करभदैर्घ्यमथार्थतालम् ॥ १४ ॥ लिङ्गं युगाङ्गुलमितं वृषणद्वयं स्याद्
हियङ्गुलं द्विरदकुम्भनिभे स्फिजौ द्वे । वृत्ते षडगुलतते द्वयमध्यसंस्था ___ कौपीनराज्यपि कलावितता कृशाना ॥ १५॥ मूलान्तराग्रविततिः क्रमशोऽगुलैः स्या
दूरुद्वये सुषिरभानुशरप्रमाणैः । जङ्घाहयेऽङ्गगिरिसत्रियवत्रिसंख्यैः
कार्या ककुप्परिमितैरधिजानुयुग्मम् ॥ १६ ॥