________________
शिल्परले
उत्तरमागः मूलादिवेदशरसाद्धिरसाङ्गसंख्यै___ासोऽङ्गुलैः पदतलेऽर्कमितैश्च दैर्घ्यम् । अगुष्ठसीम्नि कलयोन्नतिरर्धतोऽन्य
पार्थेऽगुलैः प्रपदैर्ध्यमृतुप्रमाणैः ।। १७ ॥ अङ्गुष्ठतत्सहभुवोर्जगदगुलाढ्यं
दैय नखान्नखमितिसितास्ततोऽन्याः । पर्वत्रयाहितरुचोऽङ्गलयो द्विपर्वा
गुष्ठोऽर्धपर्वशशिखण्डनिभा नखाः स्युः ॥ १८ ॥ अङ्गुष्ठके रसमितैः परिधिः परस्यां
स्यादङ्गुलैस्त्रिभिरथाष्टमभागहीनैः ।। कार्यः ऋमात् तदित(रेष्व ? रास्व)खिलेषु तत्त
द्व्यासेन लोकगुणितेन करोतु नाहम् ॥ १९ ॥ तालैस्त्रिभिः शिरसि साष्टियवेषुसंख्यैः
कक्षान्तरे रहितविश्वयवैश्चतुर्भिः। कुक्षौ त्रिभिर्भवति नाभितलायुक्तै
हस्तथा कटितटेऽर्धयुतान्धिसंख्यैः ॥ २० ॥ जङ्घोरुबाहुयुगमध्यकराङ्गुलीषु ___ कार्या करीन्द्रकरवत् परिवृत्तता च । कूर्माभता प्रपदयोर्जलजाभता च
कण्ठे कपोलतलयोर्मुकुराभता च ॥ २१ ॥ यद्यदत्र तु न कथ्यते मया तत्तदङ्गमखिलं तु युक्तितः। उत्तमाख्यनवताललक्षणप्रोक्तमार्गमनुसृत्य कारयेत् ॥२२॥ इति शिल्परते उत्तरभागे मध्यमनवताललक्षणं नाम
नवमोऽध्यायः ॥