________________
शिल्परत्ने
[उत्तरभाग: धेकाङ्गुलातततदर्धतताधरोत्त
रोष्ठान्ततोऽङ्गुलविनिस्सृतसृक्कयुग्मम् । कम्बीरकादिरुचिरं प्रकरोतु गोजिं
घोणाग्रसामिपिहिताष्टयवावतीर्णाम् ॥६॥ शब्दग्रहादिचिबुकावधि मानमिष्ट__ मष्टाङ्गुलैश्चिबुकमानमथाङ्गुलाभ्याम् । ग्रीवा गजामुलततार्ककलोपपन्नं
कक्षान्तरं स्तनयुगान्तरमेकतालम् ॥७॥ नाभिस्थली प्रवितता नृपतिप्रमाणैः
स्यादङ्गुलैः कटितटी धृतिसम्मितैश्च । कक्षस्तनान्तरमृतुप्रमिताङ्गुलाढ्यं
कक्षांसमध्यमपि मांसलमंसयुग्मम् ॥ ८ ॥ कक्षादिसन्ध्यवधिकायतिरङ्कसङ्ख्यैः
स्याद् गोलकैः शिवमितैर्मणिबन्धनिष्ठा । दिक्सङ्ख्यकैरुपभुजेऽथ ततिश्चतुर्भि
मूले प्रकोपरयुगे भुजयोस्त्रिभिश्च ॥९॥ अष्टाङ्गुलैः करतलाततिरश्विहीन
स्तद्विस्तृतिर्भवति मध्यमिकायतिश्च । मध्याद् दशांशरहिते निजपार्श्वजे तत्
पतयंशमात्ररहिते प्रथमान्त्यशाखे ॥ १० ॥ अङ्गुष्ठके विततिरर्कयवैः परासु त्र्यंशोनितैः प्रतिपलं लघिमा यवेन ।