________________
उत्तमं नवसालम् ।] अष्टमोऽध्यायः ।
इत्यायामैस्तलः प्रोक्तः पञ्चमात्रा तु विस्तृतिः । अष्ठमूलरेखायास्तर्जन्याश्च तथैव च ॥ १३२ ॥ मध्यभागप्रमाणं स्यादङ्गुलत्रयसम्मितम् ।। कनिष्ठामूलरेखाया अधस्तादमुलान्तरे ॥ १३३ ।। अनामेः कलया मूलान्मध्यायाः सार्धमात्रया । आयुर्लेखा भवेत् सा तु किञ्चिद् वक्रा प्रदृश्यते ॥ मध्यमातर्जनीमध्यं प्रविष्टा सा प्रकल्प्यते । अङ्गुष्ठमूलतर्जन्योस्त्र्यङ्गुलान्तरमध्यगा ॥ १३५॥ शक्तिरेखा प्रकल्प्या स्यात् सापि वक्रा भवेन्मनाक् । मध्यमाया अधोभागे गोलकद्वितयान्तरे ॥१३६ ॥ अनामिकाकनिष्ठाया सा स्यात् व्यङ्गुलदूरगा। तलमध्ये भवेदन्या रेखा कार्मुकसन्निभा ॥१३७ ।। पुरेखा लेखनीया तु सङ्गता शक्तिरेखया। कनिष्ठानामि(क ?)मध्यानां सन्धिः सङ्कोचकारकः ॥ आलेख्या तु भवेत्तत्र पुरा प्रोक्ता च या मया । तर्जनीसन्धिदेशे तु शक्तिरेखासमुद्भवः ॥१३९॥ अङ्गुष्ठतलसन्धौ तु पुरेखा संव्यवस्थिता। अङ्गुलत्रितयं सार्धमायानेन कनिष्ठिका ॥ १४ ॥ अनामिढिकलायामा यवद्वयसमन्विता । पञ्चाङ्गुलायता मध्या तर्जनी चतुरङ्गुला॥१४१॥ अङ्गुष्ठस्य तदा दैणं चतुरङ्गुलमीरितम् । अङ्गुष्ठस्य परीणाहः (स्फुटं प्रोक्तप्रमाणतः) ॥१४२॥