________________
शिल्परत्ने
पर्वत्रयं तु सर्वासामङ्गुलीनां प्रकीर्तितम् । अर्धाङ्गुलं समुत्सेधः सर्वासामग्रतो भवेत् ॥ १२१ ॥ सर्वासां पादशाखानामग्रपर्वार्धतो नखाः । आताम्रास्ते तु कर्तव्याश्चित्रकर्मविशारदैः ॥ १२२ ॥ करास्तु स्कन्धसन्धेस्तु पश्चाद्भागे कृकाटिका । देशतस्तु ततः कक्षभूलमेकादशाङ्गुलम् ॥ १२३ ॥ स्कन्धाभ्यां निर्गतासौ फलकौ षट्षङगुलौ । तयोर्मध्ये भवेद् वंशः कलामात्रप्रमाणतः ॥ १२४ ॥ उत्तानकदली पुष्पसन्निभः पृथुवंशकः । तदेव पृष्ठभागस्य स्वरूपं परिकीर्तितम् ॥ १२५ ॥ कक्षात्तत् कोर्परं यावद् वाहुपति कथ्यते । अष्टादशाङ्गुलं दैर्ध्य नाहेऽप्यष्टादशाङ्गुलम् ॥ १२६ ॥ कोर्परात् तलपर्यन्तं पर्व सप्तदशाङ्गुलम् | परीणाहः प्रवाहोस्तु षोडशाङ्गुलसम्मितः ॥ १२७ ॥ प्रकोष्ठस्य परीणाहश्चतुर्दशभिरङ्गुलैः । मणिबन्धपरीणाहः कर्तव्यो द्वादशाङ्गुलः ॥ १२८ ॥ विस्तारस्त्रिकलो बाह्रोः कोपरेऽङ्गुलञ्चकम् | परिणाहत्रिभागकं प्रबाहोविस्तृतिर्भता ॥ १२९ ॥ प्रकोष्ठे मणिबन्धे च परीणाहत्रिभागतः । सप्ताङ्गुलानि पाणैः स्युर्नध्य माङ्गुलिमूलतः ॥ १३० ॥ षडङ्गुलं तु तर्जन्या नाहो यशपञ्चकम् । कनिष्ठामूलरेखाया भवेदङ्गुलिपञ्चकम् ॥ १३१ ॥
:
६२
[उत्तरभागः