________________
उत्तमं नवतालम् । अष्टमोऽध्यायः ।
गुल्फो व्यङ्गलको कार्यों विस्तारेण समन्ततः। पादपृष्ठं तु कर्तव्यं प्रोन्नतं गजपृष्ठवत् ॥ ११०॥ तस्याधस्तलदेशस्तु निम्ने ह्यन्तरतो भवेत् । बहिर्भागे समं कार्य पाणेर्यावत् कनिष्ठिका ॥११॥ अङ्गुष्ठमूलदेशे तु तलं कार्य समुन्नतम् । पादाग्रतलविस्तारं षडङ्गुलमुदाहृतम् ॥ ११२ ।। पार्णेश्च तलविस्तारः कथितश्चतुरङ्गुलः। पादपृष्ठस्य चोत्सेधो भागस्त्वर्धाङ्गुलाधिकः ॥ ११३ ॥ अग्रपादस्य चोत्सेधस्त्र्यङ्गुलः समुदाहृतः। . अङ्गुष्ठमूलदेशे तु यङ्गुलः स्यात् समुच्छ्रयः ॥ ११४ ॥ अङ्गुष्ठस्य समुत्सेधो मात्रा स्याद् द्वियवाधिका। अङ्गुष्ठदैर्घ्यमुद्दिष्टमङ्गुलत्रयमीरितम् ॥ ११५॥ . अङ्गुष्ठस्य परीणाहो भवेत् पञ्चभिरङ्गुलैः। हिपर्वाङ्गुष्ठमुद्दिष्टं प्रान्तपर्वार्धतो नखः ॥ ११६ ॥ तर्जनीदीर्घमुद्दिष्टं व्यङ्गुलं द्वियवाधिकम् । व्यङ्गुलस्तु परीणाहस्तस्याः पर्वत्रयं भवेत् ।। ११७ । मध्यमादीर्घमुद्दिष्टं यवद्वाविंशतिर्बुधैः । परीणाहस्तु तस्यास्तु यवानामेकविंशतिः ॥ ११८ ॥ आयामोऽनामिकायास्तु यवविंशतिरिष्यते। अनामिकापरीणाहः कार्योऽष्टादशभिर्यकैः ॥ ११९ ॥ कनिष्ठादैर्घ्यमाख्यातं सप्तभिर्दशभिर्यवैः। कनिष्ठायाः परीणाहो यवाः पञ्चदश स्मृताः॥१२०॥