________________
शिल्परले
[उत्तरभागः मुष्कयो गिर्क दैर्ध्य तदर्धं बीजसंयुतम् । भागे वा मूलभागे स्यात् कपिनासा प्रकल्प्यते ॥१०॥ मुष्कौ सबीजको वृत्तौ भागद्वयविभाजितौ । तावन्मात्रपरीणाही कर्तव्यौ शिल्पकोविदैः॥ १०१ ॥ अधस्तान्नीतसूत्रस्य लग्ने स्यातां कुकुन्दरे । स्फिजोरधःपरीणाहस्त्रयस्त्रिंशन्मिताङ्गुलः ॥ १०२ ॥ ऊरुमध्यपरीणाहः कार्यः षट्त्रिंशदङ्गुलः । आणिदेशपरीणाहो भवेत् तालद्वयान्वितः ॥ १०३ ॥ क्रमशो हीयमानौ तावूरू कार्यों विचक्षणैः । अरोमको वलीशून्यौ रम्भास्तम्भकृतोपमौ ॥ १०४ ।। श्लक्ष्णौ मनोहरौ वृत्तौ पुंसां वा युवतीषु वा। ततस्तु जानुनी कार्ये चतुरङ्गुलमायते ॥ १०५ ॥ . अङ्गलत्रयविस्तारे तत्पाश्चौं द्विकलौ मतौ। परिणाहोऽपि तस्य स्यादङ्गुलान्येकविंशतिः ॥ १०६ ॥ पश्चाद्भागे मनाङ् निम्ने मध्ये किञ्चित्समुन्नते। जङ्घामूलपरीणाहो भवेत् षोडशमात्रकः ॥ १०७॥ इन्द्रवरितपरीणाहो भवेदष्टादशाङ्गुलः।। तिर्थक्सूत्रं समं पार्णरङ्गुलं समुदाहृतम् ॥ १०८ ॥ पाणिदेशस्य विस्तारो भवेत् पश्चाभरङ्गुलैः । भागमात्रात् तलादूय पाणितो भागतः पुरः॥१०९॥