________________
उत्तम नवतालम् । अष्टमोऽध्यायः ।
नाभिस्थाने परीणाहो भवेत् तालचतुष्टयम् । श्रोणिदेशः स विख्यातः कायस्थानपरीक्षकैः ॥ ८९ ॥ पक्वाशयाख्यके गात्रे विस्तारोऽष्टादशाङ्गुलः । पक्काशयपरीणाहश्चतुष्पञ्चाशदङ्गुलः॥ ९० ।। स प्रदेशः कटिर्नाम काञ्चीनामपि धारकः । स्त्रीणां चेदधिकः कार्यों भागनेकन कमिः ॥ ९१ ॥ वस्तिमस्तकसूत्रस्य सतपञ्चाशदङ्गुलः । परिणाहो विधातव्यस्तत्रिभागे वितस्तिभिः ॥ ९२ ॥ वस्तिसूत्रस्य विस्तारो विंशत्यङ्गुलसम्मितः। तस्य प्रोतः परीणाहः षष्टयङ्गुलमितो बुधः ॥ ९३ ।। जठ(रे ? रो) वक्षसा युक्तः कार्यों गोमुखसन्निभः । स्त्रीणां मध्यं कृशं कार्यं भागेन त्रिंशदङ्गुलैः ॥ ९४ ॥ भागेनैकेन तस्याधो लिङ्गसूत्रं प्रकल्पयेत् । पञ्चाङ्गुलं लियं मुष्कयोश्चतुरङ्गुलम् ।।९५॥ लिङ्गसूत्रत्य विस्तारः कलामात्रो निगद्यते । पार्श्वयोरुभयोस्तस्य मुकमूलाद् द्विमात्रकम् ॥ ९६ ॥ एवं चली स्यान्मुष्कस्य मूलं स्या चतुरङ्गलन् । मूले प्रान्ते प्रकर्तव्ये रेखे वझणमाश्रिो ॥९७ ॥ विनिर्गते कलामात्रं तयोर्मध्यं विभागिकम् । रेखयोः प्रान्तयोस्तबिस्तारः स्यात् षडङ्गलः ॥९८ ।। भाग एको लिङ्गदैर्थ मणिरेखाङ्गलं ततः । षडङ्गलः परीणाहो मगिनि + को मनाक् ॥ १९ ॥