________________
५८
शिल्परत्ने
[उचरभागः चूचुको(न्म ? मण्डलस्यान्तर्यवमात्रो निगद्यते । उत्सेधं विस्तृतं तद्वत् प्रमागेन निगद्यते ॥ ७८ ॥ स्त्रीणां तु द्वियवः कार्यश्चित्रुकश्चित्रकारकैः । प्रोक्तः स्तनपरीणाहस्तासामष्टादशाङ्गुलः॥ ७९ ॥ बृहती नाम तत् ख्यातं कक्षमूलस्तनान्तरम् । षडगुलं च मानेन सूत्रितं सूत्रकोविदः ॥ ८० ॥ स्तनद्वितय नध्यस्थः किश्चिन्निम्नः कलामितः । प्रदेशो वार्ध इत्युक्तः शिल्पशास्त्रविशारदैः ॥ ८१ ॥ कन्धरात् स्कन्धसन्धेस्तु बाहुमूर्धाद् द्विभागतः । पूर्वापरे कक्षमूले तालेनैकेन सम्मिते ॥ ८२ ॥ अभ्यन्तरे तथैव स्यात् ताल एको निरूपितः । कक्षमूलपरीणाहस्तदैव स्याद् द्वितालकः ॥ ८३ ॥ बाहुशीर्षोश्च बाहोश्च सन्धिस्थानं निरूपितम् । कक्षमूला + + द्वन्द्वतिर्थक्सूत्रप्रमाणतः ॥ ८४ ॥ वार्धदेशाद् भवेन्नाभिस्तालेनैकेन माषिता । नाभिरङ्गुलविस्तारा वर्तुलार्धाङ्गुल पगा ॥ ८५ ॥ वार्धस्य पार्श्वयोस्तिर्यग् विस्तारस्तु विभागिकः । चतुर्यवसमोपेतस्त्वेवं सप्तदशा गुलः ।। ८६ ।। वार्धदेशे परीणाह एकपञ्चाशदङ्गुलः। ततोऽ(धान्म ? धोम)ध्यभागस्तु प्रोक्तो मनुभितागुल:
॥ ८७ ॥ मध्यदेशपरीणाहो द्विचत्वारिंशदगुलः । नाभिदेशस्य विस्तारो भवेचन्द्रकलाङ्गुलः ॥ ८८ ॥