________________
उत्तमं नवतालम् । अष्टमोऽध्यायः ।
तस्माद् बहिश्चलास्थि स्यात् कर्णमूलेन सङ्गतम् । क्रमशो हीयते तत् तु यावत् स्याङ्कनुमण्डलम् ॥ ६७ ॥ सार्धाङ्गलं भवेदूर्ध्व तिर्यक् स्याच्चतुरङ्गुलम् । अधरोष्टतलोदेशे चित्रुकं समुदाहृतम् ॥ ६८ ॥ कुञ्जकूर्च भवेत्तस्मिन्निम्न मात्राप्रमाणकम् । हनुपृष्ठे भवेत् कूर्च प्रबलास्थिक्रमेण तु ॥ ६९ ॥ यवमानं प्रकुर्वीत कूर्च प्रथमसम्भवम् । यष्टवत्सरदेहस्य पुरुषस्य विचक्षणः ॥ ७० ॥ प्रकुर्वीत ततश्चोर्ध्वमधिकं यवमानतः । अष्टाङ्गुलं भवेद् ग्रीवा विस्तारेण निरूपिता ॥ ७१ द्विगोलार्ध च दैर्येण परिगाहे द्वितालिका । ग्रीवामध्यप्रदेशे तु तदधस्तु ततोऽधिका ।। ७२ ॥ हिक्काया हृदयं तालस्तालश्च स्तनचूचुके । कक्षमूले तथा तालस्तालः कक्षधरो भवेत् ॥ ७३ ॥ कन्धरात् स्कन्धसन्धिः स्याडिकायाश्चतुरङ्गुलः । कक्षमूलात् कक्षधरो भवेदष्टाङ्गुलायतः ॥ ७४ ॥ हिकायाः पार्श्वयोर्लमे जत्रुणी भुजमूर्धगे । एकादशाङ्गुले प्रोक्तं किञ्चिदुन्नतविग्रहे ॥ ७५ ॥ हिकायाः कक्षमूलाच्च स्तनचूचुकलाधृतः । मध्ये वक्षःस्थलं प्रोक्तं तालमात्रं समन्ततः ॥ ७६ ॥ द्वयोश्चूचुकयोर्भध्यं तालमात्रमुदाहृतम् । कुचचूचुकयोवृत्तं मेचकं व्यङ्गुलं भवेत् ॥ ७७ ॥