________________
५६ शिल्परत्ने
[उत्तरभागः ओष्ठयोरुभयोः प्रान्तसंयोगौ सृक्किणी मतौ । नेत्रज्योतिःसमे कार्ये विकाररहिताकृतौ ॥ ५७ ॥ विकारे वर्धते सृक्कं तथा सङ्कोचमेति च । हसनोदनविष्कासे भीते तर्के च रोदने ॥ ५८ ।। वर्धते सृक्कणोईन्द्वमेकाङ्गलमथायतौ ।। चुम्बने तो + + तद्वदाम्रादिफलचूषणे ॥ ५९ ।। संकुचेत् सृक्कणोऽत्यर्थमेकैकाङ्गुलहानितः । गोजिकाधारयोर्मध्यं त्वाधाने चतुरङ्गुलम् ॥ ६० ॥ पार्श्वद्वयं क्रमाद्धीनं त्रिद्वयेकाङ्गुलमानतः । दन्ता द्वादश दृश्याः स्युः पतिदयसमाश्रिताः ॥ ६१ ॥ ऊर्ध्वाः पञ्चयवा दृश्यास्तलस्थास्त्रियवास्तथा । राजदन्तौ तु मध्यस्थावूर्ध्वपतिसमाश्रितौ ॥ ६२ ।। तयोः पार्श्वगतो मध्यौ तत्पार्चे परिपक्षके । अधः पतिगतौ मध्यौ दन्तिसन्दर्शनामकौ ॥ ६३ ।। तत्पार्श्वगौ कर्तनाख्यौ ततः स्यातां तु खण्डनौ । सुश्लक्ष्णाः कान्तिसम्पन्नाः स्वच्छाः शुभ्रा निरन्तराः
[॥६४॥ दशनाः शिल्पिभिः कार्या अच्छायालेखनेऽपि च । चिबुकाखण्डने हासे त्रासादङ्गुलिचर्मणा ।। ६५॥ दर्पणालोकने दृश्या दशनच्छदगूहिताः । स्रक्कणः पार्श्वगो देशौ गलान्तात्तु निरस्थिकौ ॥ ६६ ।।
१.
'ध' क. ग. पाठः.