________________
उत्तम नबतालम् !] अष्टमोऽध्यायः ।
ऊर्ध्वकर्णस्य विस्तारः स यवद्वयगोलकः । मध्ये च यमुलो ज्ञेयस्तले मात्रा च षड्यवा ।। ४६ ॥ ततोऽधः पालिका कार्या चतुरङ्गुलमायता । स्यादङ्गुलविस्तारा भूले मात्रामिता शुभा ॥ १७॥ मुनिबालादिकर्णानामविद्धानां विशेषतः। प्रमाणमङ्गुलं प्रोक्तं कर्णपाल्या विचक्षणैः ॥४८॥ कनीनिमध्यमुद्दिष्टं नासामूलं तदङ्गुलम् । अध्यर्धमङ्गुलं मध्यं नासाग्रं यगुलं भवेत् ॥ १९ ॥ घोणाग्रमगुलं तच्च तदर्धन पुटो भवेत् । अङ्गुलद्वयविस्तारं नासायामिति कीर्तितम् ॥ १० ॥ घोणाबिलं समुद्दिष्टं कनिष्ठागुलिमात्रकम् । श्रमे श्वासे स हासे च कोपे कामे ततोऽधिकम् ॥ ५१ ॥ तिलपुष्पसमाकारा किञ्चिदने समुन्नता । ततोऽर्धमानं विस्तारं श्मश्रुदेशो निगद्यते ।। ५२ ॥ तस्य द्विगोलकायामो नासायाः पुरतः स्थितः। तस्य मध्ये भवेद् गोजिः प्रणालाकारधारिणी ॥ ५३ ॥ अर्घाङ्गुलं भवेद् दैर्ध्य विस्तारं त्रियवं भवेत् । उत्तरोष्ठो भवेत्तस्य अधस्थाद् भागदैर्ध्यकः ॥ ५४ ।। यवपत्रकविस्तारः क्रमशः परिहीयते ।। श्मश्रूत्तरोष्ठयोर्मध्ये रेखा किश्चित् समुज्ज्वला ॥ ५५ ॥ उन्नता यवमात्रा स्याद् दैादोष्ठप्रमाणिनी । अधरोष्ठो भवेत्तस्या अधस्ताद् भागदैर्ध्यकः ॥ ५६ ॥