________________
शिल्परने
[उत्तरभागः अङ्गठप्रथमं पर्व द्यङ्गलं द्वियवाधिकम् । अग्रपर्व तथा प्रोक्तं व्यङ्गुलं द्वियवोनितम् ॥ १४३ ॥ अङ्गठस्य बहिः पर्व तृतीयं व्यङ्गलं भवेत् । पृष्ठोपर्वणश्चार्धे भवेन्नखसमुद्भवः ॥ १४४ ॥ तर्जन्याः प्रथमं पर्व सार्धाङ्गलमितं भवेत् । अङ्गुलं मध्यम पर्व कीर्तितं द्वियवाधिकम् ॥१४५।। अग्रिमं च तथैवोक्तं तदर्धे नखसम्भवः । मध्यमाप्रथमं पर्व सार्धमङ्गुलमिष्यते ॥ १४६ ।। द्वितीयं च तथैव स्यात् तृतीयं व्यङ्गुलं पुनः । अनामेरेवमेव स्यादग्रिमं दिग्यवं स्मृतम् ॥ १४७ ॥ कनिष्ठा प्रथमं पर्व यवा दश तथानिमम् । अङ्गुलं मध्यपर्व स्यात् कार्यः स्यात् पूर्ववन्नखः॥१४८॥ निर्लोम प्रोज्ज्वलं कार्य पाण्यङ्गुलितलं बुधैः । अङ्गुल्यग्रे यवादाक् सजीवः क्रियते नखः ॥ १४९ ॥ तत्राग्रे जीवहीनं तु नखाग्रं परिकल्प्यते । सजीवो लोहितः किञ्चिन्निर्जीवो मधुकच्छविः ॥ १५॥ यवत्रितयमानेन नखाग्रं परिकल्पयेत् । अत्रानुक्तं तु यत् सर्वमुत्तमं दशतालवत् ।। १५१॥ इति शिल्यरत्ने उत्तरभागे उत्तमनवताललक्षणं
नामाष्टमोऽध्यायः ॥