________________
शिल्परले
[उत्तरभागः एवं भागद्वयेऽप्युक्तो विस्तारो मस्तकाश्रयः। षट्त्रिंशदङ्गलो ज्ञेयः परिणाहो विचक्षणैः ॥ १३ ॥ भूपृष्ठात् केशपर्यन्तं ललाटं त्रयङ्गुलं भवेत् । भ्रूयुग्ममध्यादारभ्य ततोऽध्यर्धकलामितम् ॥ १४ ॥ भ्रुवोः प्रान्तं तदेव स्यात् कलाद्वितयसम्मितम् । आरोपितधनुःप्रख्या भ्रुवोर्लेखा विरच्यते ॥ १५ ॥ मात्रार्धकृतविस्तारात् क्रमशः परिहीयते। प्रान्ते श्लक्ष्णा च तीक्ष्णा च सा दैर्ये त्रयङ्गुला भवेत् ॥ त्रियवं रोमदैयं तु भ्रुवोर्मध्ये विधीयते । द्वियवं तु भवेदादौ प्रान्ते स्याद् यवमात्रकम् ॥ १७ ॥ वितर्कसहने कोपे विस्मये मध्यकुञ्चिता। जुगुप्सिते सूक्ष्मदृष्टौ भ्रमूलं कुञ्चितं भवेत् ॥ १८ ॥ केशान्तरेखाविन्यासे द्वितीयेन्दुकलाकृतिः। प्रान्तादुत्प्रेक्षनामानौ प्रदेशौ परिकीर्तितौ ॥ १९ ॥ उत्क्षेपाभ्यां समौ कुर्याद् ध्रुवोः प्रान्तौ विचक्षणः । एवं ललाटमानं तु चतुष्कलमुदाहृतम् ॥ २० ॥ उत्क्षेपः प्रान्तदेशे स्याद् ऋजुरूपाल(ता? का)वली । कलामात्रे च सा ज्ञेया स्थापनीसूत्रकावधिः॥ २१ ॥ ततस्तिर्यग् भवेद् रेखा मात्राद्वितयसम्मिता । निर्गच्छति ततः कूर्च तद्रखामात्रया मिता ॥ २२ ॥ कूर्चरेखा भ्रुवोः प्रान्तं मध्ये स्यादङ्गुलद्वयम् । स एव शखो विख्यातः प्रदेशविधिकोविदैः ।। २३ ॥