________________
उत्तम नबतालम्।] अष्टमोऽध्यायः ।
तस्मात् पुटान्तं वेदांशं पुटाइन्वन्तकं तथा । कण्ठेमानं तु वेदांशं भान्वंशं हृदयावधि ॥ २ ॥ ततस्तु नाभिसूत्रान्तं तथा द्वादशमात्रकम् । नाभ्यादिमेढ़मूलान्तं भानुमात्रं विधीयते ॥ ३ ॥ ऊरुदीर्घ चतुर्विंशदंशं जानु युगांशकम् । जवादी तुरुतुल्यं वेदांशं चरणोदयम् ॥ ४ ॥ छत्राकारं भवेच्छीर्ष शिखादेशं समुद्तम् । शिखायाः पूर्वभागे तु किञ्चन्निम्नं भवेत् तथा ॥ ५ ॥ शिखायाः पार्श्वयोनिम्नं कलामात्रं विहाय तत् । शिखायाः पश्चिमे भागे प्रोन्नतं जायते मनाक् ॥ ६ ॥ ततोऽधस्ताद् भवेद् गर्तः प्रणालसदृशाकृतिः। एकाङ्गुलस्तु विस्तारो दैर्ध्य स्यादगुलद्वयम् ॥ ७ ॥ कर्णाग्रसन्धौ संलग्नं कर्णपृष्ठेऽगुलान्ततः । ततो द्विद्व्यङ्गुलातीतस्त्र्यङ्गुलोऽथ कथोद्भवः ॥ ८॥ एकैकाङ्गुलविस्तारः शिरोगर्तस्य पार्श्वयोः । इत्येष पश्चिमे भागे कथितः केशसम्भवः॥ ९॥ केशाः कृष्णाः पिशङ्गा वा जटिलाः कुटिलाः कचित् । विरच्यन्ते यथाशोभं तत्तद्रूपानुसारतः ॥ १० ॥ अष्टादशाङ्गुलं पूर्व पश्चिमाधैं तथैव च । भवेता कर्णयोरूभागौ पूर्वापरौ यमौ ॥ ११ ॥ सीमन्ताद् गर्तमध्यान्तं भवेदष्टादशाङ्गुलम् । वामदक्षिणयोर्चेष्टाद् भवेत्तालैस्त्रिभिर्मितम् ॥ १२ ॥ १. 'ण' क. ख. पाठ,