________________
शिल्परले जङ्घामूलविशालं तु सार्धषण्मात्रमुच्यते । नलकायास्तु विस्तारं सार्धवेदाङ्गुलं भवेत् ॥ ३५ ॥ अ स्तलस्य विस्तारं चतुरङ्गुलमिष्यते। तलमध्यविशालं तु भूताङ्गुलमुदाहृतम् ॥ ३६ ।। पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् । अनामिकादीर्घमानं कुर्यात् त्रिंशद्यवैस्तथा ॥ ३७॥ मध्यागुलं च तत्तुल्यं वेदांशं तदनामिका । कनिष्ठिकाया दीर्घ तु सार्धवहयगुलं भवेत् ॥ ३८ ॥ सप्ताष्टनवधर्माख्यैर्यवैविश्वाभिधैः क्रमात् । कनिष्ठाद्यगुलीनां तु विस्तारं प्रविधीयते ॥ ३९ ॥ अग्रमूलसमं प्रोक्तं तत्तारं त्रिभिरंशयेत् । द्विभागं नखविस्तारमायाम तत्समं तथा ॥ ४०॥ आयामवर्तुलाकारमर्धचन्द्राकृतिर्भवेत् । तलाग्रेऽगुष्ठमूले तु द्विमानं तु धनं स्मृतम् ॥ ४१ ॥ कनिष्ठायां नवयवं तलस्य धनमुच्यते । कक्षयोरन्तरं पृष्ठे चतुर्विंशतिमात्रकम् ॥ ४२ ॥ अत्रानुक्तं तु यत् सर्वमुत्तमं दशतालवत् ॥ ४२३ ।। इति शिल्परत्ने उत्तरभागेऽधमदशतालं नाम
सप्तमोऽध्यायः ॥
अष्टमोऽध्यायः ।
अथोत्तमं नवतालम् । उष्णीषं त्वेकभागेन केशान्तं तद्गुणागुलम् । केशान्तादक्षिसूत्रान्तं वेदमात्रमिति स्मृतम् ॥ १॥