________________
भधर्म दशतालम् । सप्तमोऽध्यायः ।
तलायामसमं ज्ञेयं तलस्यैव विशालकम् । मणिबन्धस्य विस्तारं यवाधिकगुणाङ्गुलम् ॥ २४ ॥ प्रकोष्ठमूलविस्तारं वस्वङ्गुलमुदाहृतम् । अर्धभूतांशकं बाहोरप्रदेशविशालकम् ॥ २५ ॥ सार्धषण्मात्रकं ज्ञेयं बाहुमध्यस्य विस्तृतम् । बाहुमूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ २६ ॥ बाहुपर्वान्तविस्तारमष्टत्रिंशाङ्गुलं भवेत् । हिक्कासूत्रात्तु कक्षान्तं वस्वङ्गुलमुदाहृतम् ॥ २७ ॥ द्वाविंशदङ्गुलं प्रोक्तं कक्षयोरन्तरं पुनः । हृदयावधि विस्तारं भवेदष्टादशाङ्गुलम् ॥ २८ ॥ उदरस्य तु विस्तारं सप्तादशाङ्गुलं भवेत् । श्रोणिप्रदेशविस्तारमष्टादशांशमुच्यते ॥ २९ ॥ षड्यवं नाभिविस्तारं निम्नमर्धयवं भवेत् । स्तनमण्डलविस्तारमर्धमात्रमुदाहृतम् ॥ ३० ॥ चूचुकं च यवं प्रोक्तमुत्सेधं तत्समं भवेत् । द्वयोः स्तनाक्षयोरन्तः सार्धद्वादशमात्रकम् ॥ ३१ ॥ मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् । लिङ्गं पञ्चाङ्गुलायाममौत्पलं मुकुलं तथा ॥ ३२ ।। कटिप्रदेशे विस्तार षड्यवाष्टादशाङ्गुलम् । ऊरुमूलविशालं तु सार्धद्वादशमात्रकम् ॥ ३३ ॥ ऊर्वग्रस्य तु विस्तारं सार्धरन्ध्राङ्गुलं स्मृतम् । जानुमध्यविशालं तु सार्धवस्वङ्गुलं भवेत् ॥ ३४ ॥ १. '' क. ग. पाठः.