________________
१८
शिल्परत्ने
उत्तस्मागः कर्णस्थानं च कर्णं च उत्तमंदशतालवत् । घाणमूलस्य विस्तारं यवमात्रमुदाहृतम् ॥ १३ ॥ नासिकाग्रविशालं तु व्योममात्रमिति स्मृतम् । अधरोष्ठस्य चायामं पक्षमात्रमुदाहृतम् ॥ १४ ॥ तदर्धं तस्य विस्तारं चिबुकं तु यवद्वयम् । विस्तारं तत्समं विद्यान्निम्नमर्धयवं स्मृतम् ॥१५॥ ततोऽधोभागनिष्क्रान्तं यवोनव्योममात्रकम् । ग्रीवामूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ १६ ॥ ग्रीवाग्रस्य तु विस्तारं सार्धसप्ताङ्गुलं तथा । वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् ॥ १७ ॥ पञ्चविंशतिमात्रं तु बाहुदीर्घमुदाहृतम् । आयामं तुः प्रकोष्ठस्य एकोनविंशदङ्गुलम् ॥ १८ ॥ तस्मान्मध्यामुलाग्रान्तं सार्धद्वादशमात्रकम् । तदर्धं तु तलायाम शेषं मध्याङ्गुलायतम् ॥ १९ ॥ अङ्गुष्ठस्य तु तद्दीर्घमष्टाविंशद्यवं स्मृतम् । सार्धवेदाङ्गुलं प्रोक्तमनामिकामुलायतिः ॥ २० ॥ तथैव तर्जनीदीर्घ कनिष्ठस्य युगाङ्गुलम् । धर्माष्टवसुषड्भूतयवा ज्येष्ठादिविस्तृतिः ॥ २१ ॥ तत्तदष्टमभागोनं तेषामग्रविशालकम् । अग्रव्यासे तु भूतांशे त्रिभागं नखविस्तृतम् ॥ २२ ॥ विस्तरेण सपादं तु नखायाम प्रकीर्तितम् । यवत्रयं तलघनं तदष्टांशोनमग्रतः ॥ २३ ।।