________________
अधमदशतालम् ] सप्तमोऽध्यायः । नाभेस्तु मेढूपर्यन्तं सार्धभान्वङ्गुलं पृथक् । मेदाज्जान्वग्रपर्यन्तं पञ्चविंशाङ्गुलं स्मृतम् ॥३॥ वेदाङ्गुलं तु जानुः स्याज्जङ्घा चोरुसमा स्मृता। वेदांशं चरणोत्सेधमेवं स्यादङ्गतुङ्गता ॥ ४ ॥ उष्णीषात् पृष्ठकेशान्तं सार्धभान्वङ्गुलं स्मृतम् । उष्णीषात् पार्श्वकेशान्तमष्टमात्रमुदाहृतम् ॥ ५॥ उष्णीषात् पूर्वकेशान्तं पञ्चमात्रमिति स्मृतम् । केशान्ताडनुपर्यन्तं त्रिभिर्भागैविभाजिते ॥६॥ केशान्तादक्षिसूत्रान्तं तस्मान्नासापुटान्तकम् । तस्मात् तनुपर्यन्तं प्रत्येकं चैकभागतः ॥ ७ ॥ यवान्वितद्विमानं तु नेत्रयोरन्तरं तथः । तत्समं नयनायामं भूतमात्रं भ्रुवायतम् ॥ ८ ॥ भ्रूमध्यात्तूर्ध्वकेशान्तं सप्तादशयवं स्मृतम् । यवं भ्रुवोर्मध्यतारं कृशानी क्रमात् ततः॥९॥ षड्यवं नेत्रविस्तारमूर्ध्वचर्म यवार्धकम् । अधोचर्म च तत्तुल्यं कंबीरं तु पदं भवेत् । १० ॥ नेत्रायामत्रिभागैकं कृष्णमण्डलविस्तृतम् । यवमानं तु तन्मध्ये ज्योतिर्मण्डलकं स्मृतम् ॥ ११ ॥ अधोचर्मस्थिति नेत्रसूत्रे कुर्याद् विशेषतः। तस्य केशान्तयोर्मध्ये भूस्थितिर्बालचन्द्रवत् ॥ १२ ॥ १. 'सीमान्तं' ग. पाठः.