________________
उत्तमं नवतालम् । अष्टमोऽध्यायः ।
पिप्पल्याः कूर्चरेखाया भवेदन्तरमङ्गुलम् । एवं ललाटविन्यासः कथितः सोमभूभुजा ॥ २४॥ अर्धाङ्गुलं भ्रुवोर्मध्यान्नसो मूलं निरूपितम् । किञ्चिल्ललाटतो निम्नं तस्याः पार्थे निरूपिते ॥ २५ ॥ समन्तान्नेत्रयोर्गर्तावक्षिकूटौ प्रकल्पितौ।। अर्धाङ्गलप्रमाणौ तौ (तेन ? नेत्र)वर्त्मबहिःस्थितौ ॥ २६ ॥ अर्धाङ्गुलप्रमाणेन नेत्रे वर्त्मद्वयं भवेत् । निमीलनादूर्ध्ववर्त्म भवेदङ्गुलसम्मितम् ।। २७ ।। त्रियवं पक्ष्मणाय (सान्द्रमापतिमाशुभाः ?)। अर्धाङ्गुलमिते स्यातां नेत्रमूले निरूपिते ॥ २८ ॥ ध्यङ्गलं नेत्रयोर्दैर्घ्य विस्तारं स्यात्तदर्धतः। पञ्चपञ्चयवौ कार्यो शुक्लभागौ विचक्षणैः ॥२९॥ तन्मध्ये मेचकं कुर्यान्मण्डलं वर्तुलाकृति । तच्च पश्चयवं प्रोक्तं तन्मध्ये दृष्टिरिष्यते ॥ ३० ॥ वर्तुला यवमात्रा च पुत्रिकाप्रतिबन्धिनी । रक्तता प्रान्तयोः शस्ता तीक्ष्णतापाङ्गयोः शुभा ॥३१॥ मध्योन्नतं नेत्रगोलं (कर्ता कार्य प्रयत्नतः। आकारो नेत्रयोः कार्यो नीलोत्पलदलोपमः ॥ ३२ ॥ अपाङ्गयोरधः कार्यो) कपोलौ यङ्गुलोन्नतौ । कर्णपिप्पलिदेशान्तौ तिर्यक्सूत्रेण मापितौ ॥ ३३ ॥ अपाङ्गपिप्पलीमध्यं पञ्चाङ्गुलमुदाहृतम् । तदेव च समं तिर्यमापितं चतुरङ्गुलम् ॥ ३४ ॥