________________
उत्तमदशतालम् ] पञ्चमोऽध्यायः ।
सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् । नाभिसूत्रे तु विस्तारं सार्धविंशाङ्गुलं तथा ॥ ९३॥ कटिबन्धे तु विस्तारं त्रिषडङ्गुलमानतः। पादोनधर्मभागं तु स्फिबिम्ब प्रति विस्तृतिः ॥ ९४ ।। सुवृत्तौ तौ समाख्यातौ तयोर्मध्यं चतुर्यवम् । अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ॥ ९५ ॥ कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् । सपादषोडशांशं तु हस्तसूत्रे तु विस्तृतिः॥९६ ॥ सपादद्वादशांशं तु मध्ये पार्श्वघनं भवेत् । श्रोणीमध्ये घनं पार्श्वे सप्तोत्तरदशाङ्गुलम् ।। ९७ ॥ तत्र श्रोण्युदयं पूर्वैः सप्तमात्रं विधीयते। नाभिसूत्रादधश्चोर्ध्वं चतुर्वह्नयङ्गुलं हि तत् ॥९८ ॥ श्रोण्यधस्तात् कटेरुच्चं सार्धभूताङ्गुलं भवेत् । तत्कटेश्च धनं विद्यात् सार्धभान्वङ्गुलं भवेत् ॥ ९९ ॥ तत्र श्रोण्युदयं कुर्यात् ++++++++। + तुझं चोरुमूलात् तु नीव सार्धयुगाङ्गुलम् ॥ १० ॥ कक्षाजठरनिम्नं तु सार्धद्वयङ्गुलमुच्यते । सूत्रं सुवृत्तनाभेस्तु रेखे हे परिवेष्टिते ॥ १०१ ॥ कर्णमूले तु तत्तारं तुझं चैव चतुर्यवम् । हिक्कादश्वाक्षिसूत्रं तज्जानुसूत्रमुदाहृतम्॥१०२॥ हिकामध्यात् तु कक्षान्तं कल्पयेत् त्रिभिरंशकैः । कर्णमूले तु तां हिक्कासूत्राधस्तात् तु कल्पयेत्॥१०३।।