________________
शिल्परले
[उत्तरमागः हिकासूत्रोपरिष्टात् तु नीलकण्ठं प्रकल्पयेत् । हृदयात् स्तनपीठोच्चं व्यङ्गुलं समुदाहृतम् ॥ १०४ ॥ सप्तादशयवं ख्यातं स्तनमण्डलविस्तृतम् । तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् ॥ १०५ ॥ नाभेस्तु स्तनविस्तारं व्योमाशं द्वियवं पुनः । तन्नाभिर्दक्षिणावर्त मूले तारं यवद्वयम् ॥ १०६ ॥ तन्नाभ्यवटमध्यस्थसूत्रं ++++++ नाभेरधःस(दाते ? पादे)न श्रोण्युच्चं पञ्चमात्रकम्॥१०७॥ तदर्ध तत्कटिश्रोणिगाढं तु व्यङ्गुलं भवेत् । तस्मादामेद्रमूलं तु मेदमूलं युगाङ्गुलम् ॥१०८॥ सपादपञ्चमात्रं तु लिङ्गदीर्घमुदाहृतम् । लिङ्गमूलविशालं तु सप्तादशयवं स्मृतम् ॥ १०९ ॥ लिङ्गायामत्रिभागैकमग्रखण्ड्यायतं स्मृतम् । यदग्रखण्डिमूलं तु यवमानं बृहत्तरम् ॥ ११०॥ रक्तोत्पलस्य मुकुलसन्निभं तु तदग्रकम् । मुष्कायामं विशालं च सार्धवेदाङ्गुलं भवेत् ॥१११॥ धनं सार्धगुणांशं तु तन्मूलोवोरुबन्धनम् । मेद्मूलस्य पीठस्य व्यासं सप्ताधमात्रकम् ॥ ११२ ॥ मेद्रमूलस्य पीठान्तमूरुमूलस्य मांसलम् । जानुमण्डलविस्तारं सपादचतुरङ्गुलम् ॥ ११३ ॥ साधं तु व्यङ्गुलं प्रोक्तं जानुमण्डलनीत्रकम् । साधं तु यमुलं प्रोक्तं पृष्ठजानुनतं विदुः ॥ ११ ॥