________________
२०
शिल्परले
[उत्तरभागे. द्विभागं पिञ्चषीदीर्घमध्यांशं हि तत्ततम् । अक्षिसूत्रादधः कर्णचारमर्धाङ्गुलं भवेत् ।। ८२ ॥ कर्णद्वार ततो निम्नं सममेव तु वर्तुलम् । कर्णपालिघनं सार्धयवं नीवं चतुर्यवम् ।। ८३ ॥ पृष्ठकर्णस्य विस्तारमध्य(शमुदाहृतम् । केशान्तात् पृष्ठकर्णान्तस्यान्तरं त्वर्धमात्रकम् ।। ८४ ॥ पृष्ठकर्णावसाने तु + + न्य(शकं धनम् । तस्याधः पृष्ठकण्ठोच्चं युगांशं त्रियवाधिकम् ।। ८५ ॥ कृकाटिकाधोग्रीवाग्र+ + + तन्नवांशकम् । पृष्ठग्रीवस्य मूलस्य तारं सार्धदशाङ्गुलम् ।। ८६ ॥ मूलादग्रं क्रमात् क्षीणं ग्रीवं वृत्ताभमुच्यते। हिक्कासूत्रोपरि स्कन्धसन्धितुङ्गं युगाङ्गुलम् ॥ ८७ ।। कर्णबन्धादधः सार्धषण्मात्रं स्कन्धसीमकम् । सप्ताङ्गुलघनं स्कन्धं हिकावधि क्रमात्क्षयम् ॥ ८८ ।। पृष्ठग्रीवादधस्तात् तु ककुन्मानं दशाङ्गुलम् । तस्मादाकटिसन्ध्यन्तं वंशमृक्षामुलायतम् ॥ ८९॥ तद्वंशौ नतविस्तारौ सार्धषोडशकैर्यवैः। वंशमानादधस्तात् तु वंशमूलं गुणाङ्गुलम् ॥९॥ अपरे तुङ्गमेव स्याद् व्यासं तस्य न संशयः । सार्धमृक्षाङ्गुलं प्रोक्तं कक्षयोरन्तरं पुनः ।। ९१ ॥ कक्षाधस्थांसफलकतुङ्गं सप्ताङ्गुलं भवेत् । कक्षोर्चे बाहुसीमान्तं सप्ताङ्गुलमुदाहृतम् ॥९२॥ १. !' क, ग. पाठः. २. 'श' ख. पाठः,