________________
उत्तमवशतालम् ] पञ्चमोऽध्यायः । यवाधिकाङ्गुलं तस्य विस्तारं परिकल्पयेत् । अधरं पालिका सार्धयवमानमधोगतम् ॥ ७१ ॥ चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते।। किश्चित्प्रहसिताकारं सुष्ठु युक्त्या समाचरेत् ॥ ७२ ॥ अधराच्चिबुकालम्ब सार्धपक्षाङ्गुलं भवेत् । चिबुकात् तु हनोः स्थानं साधं च यवमुच्यते ॥ ७३ ॥ सार्धवह्नयङ्गुलं तस्य तारमायतवृत्तवत् । हनोः सन्धेः कर्णसन्धिय॑न्तरं तु दशाङ्गुलम् । ७४ ॥ हनोर्बाह्य तदारभ्य पादोनद्विगुणाग्रकम् । कर्णवेशमिति ख्यातं तत्र कर्ण प्रकल्पयेत् ॥ ७५ ।। नेत्रात् तु कर्णबन्धान्तविस्तारं सप्तमात्रकम् । कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः ॥ ७६ ॥ अक्षिसूत्रोवंतः कर्णतुङ्गं चाष्टादशा यवाः । तदर्ध चोर्ध्वबन्धं तु शेषं वृत्तमुदाहृतम् ॥७७॥ नेत्रसूत्रादधः कर्ण यवाः सप्तदश स्मृताः । सार्धवेदाङ्गुलं तस्मात् तस्य नालं प्रकल्पयेत् ।। ७८ ॥ पूर्वभागे नतं व्योमभागं साधांशकं परम् । नालयोप्समाख्यातं पुनरर्धाङ्गुलं तयोः ॥ ७९ ॥ नालान्तरं त्रिपादांशं वेदांशं विस्तराद् धनम् । कर्णतुङ्गमशेषं तु यवैकोननवाङ्गुलम् ॥ ८० ॥ विफलीनवमर्धाशं द्विगुणं हि तदायतम् । उत्सेधं चार्धमानं स्यान्मूलादग्रं क्षयानुगम् ।। ८१ ॥