________________
शिल्परले
उत्तरनाम: कर्तु शमधादृष्टिरूर्ध्वदृष्टिस्तथा विपत् । बन्धुनाशं पार्श्वदृष्टिमिहानि करोतु वा ॥ ६॥ तस्मात् सर्वप्रयत्नेन समदृष्टियथा कुरु । नासिकापुटबाह्यं तु तारमष्टादशैर्यवैः ॥ ६१ ॥ तदर्ध मध्यविस्तारं तस्याध मूलविस्तृतिः । ओष्ठमूलातु नासाग्रं तुङ्गं तु यङ्गुलं भवेत् । द्वारतिर्यग्गतं व्यासं सार्धसप्तयवं स्मृतम् । द्वारतुङ्गं पञ्चयवं पुटं निष्पावबीजवत् ॥ ६३ ॥ तिलपुष्पवदाकारं नासिकाया विशेषतः । पुष्करोत्सेधमेकांशं तदनं त्रियवं भवेत् ॥ ६४ ॥ पुटयोर्मध्यभित्तिस्तु पुष्करं त्विह कथ्यते । अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः ॥ १५ ॥ सार्धवेदयवं गोष्ठं दीर्घ तस्यार्धविस्तृतम् । ऊोष्ठस्योर्ध्वबिम्बं तु गोजीनाम्ना प्रशंसितम् ॥१६॥ यवमानं तु तां गोजी कृत्वैवं नासिकादधः । सपादचतुरंशं तु तिर्यगास्यगुहायतम् ॥ ६७ ॥ उत्तरोष्ठायतं तस्य दीर्घतुल्यमुदाहृतम् । उत्तरोष्ठस्य मध्ये तु ततं सार्धयवत्रयम् ॥ ६८॥ आनुपूर्व्या कृशं तारमास्यसीमावसानकम् । यवमानं घनं वापि तस्यौष्ठस्य तथोपरि ॥६९ ॥ त्रियवावनता वापि तदोष्ठसदृशायतम् । अष्टादशयनं प्रोक्तमधरोष्ठायतं तथा ॥ ७० ॥