________________
उत्तमदशतालम्]
पञ्चमोऽध्यायः । शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरङ्गुलम् । तथैवोदग्रकेशान्तं नवाङ्गुलमुदाहतम् ॥ ४९ ॥ ततो वै मण्डलात् कर्ण केशान्तं च नवाङ्गुलम् । मण्डलात् पृष्ठकेशान्तं सार्धधर्माङ्गुलं स्मृतम् ॥ ५० ॥ ललाटे कीर्तिमानं तु नवाङ्गुलमुदाहृतम् । केशान्तस्याक्षिसूत्रस्य द्वयोर्मध्ये ह्यवस्थितम् ॥ ५१ ॥ भ्रुवोरगं नवाङ्गल्यं चापाकारं यथा कुरु । अन्तरं तु भ्रवाश्चैव सार्धवेदयवं भवेत् ॥ ५२ ॥ पञ्चाङ्गुलं भ्रुवोदीर्घ मध्ये तारं यवद्वयम् । प्रतिपच्चन्द्रवत् क्षीणौ भ्रुवाग्रौ तस्य मध्यमात् ॥ ५३ ॥ कनीनिकाया विस्तारं यवमानं विशेषतः । कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् ॥ ५४ ॥ सितांशं तत्समव्यासं कृष्णमण्डलपार्श्वयोः । शफराकृतिकं वापि सरोजाकृतिमेव वा ॥ ५५ ॥ अर्धचन्द्राकृतिर्वापि नेत्राकारं प्रकल्पयेत् । तत्तारकानुकूल्योच्चं सितमण्डलकस्य हि ॥ ५६ ॥ अर्धनेत्रयवं रक्तं मण्डलं त्वधिकांशके ! कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं यवम् ॥ ५७ ।। तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् । सार्धभूयवमानं तदूर्ध्वपक्ष्मविशालकम् ॥ ५८ ।। अथ पञ्चयवस्तुल्यं दीर्घमष्टादशैर्यवैः । नेत्रयोरन्तरं कुर्यात् सपादयंशमानतः ॥ ५९ ॥ १. 'कार्यमा' क. ग. पाठः.