________________
शिल्परने
[उत्तरभागः कनिष्ठिकामूलपर्वं त्रयोदशयवं स्मृतम् । मूलाग्रपर्वयोर्मध्यं दीर्घ मध्यस्थपर्वसु ॥ ३८ ॥ अङ्गुष्ठं तु द्विपढ्यं शेषास्त्रिपर्वसंयुताः। सार्धभूताङ्गुलं तत्र तले विपुलं भवेत् ॥ ३९ ॥ रसांशं मध्यविस्तारं मूले सार्धषडंशकम् । अङ्गुष्ठमूलात् तर्जन्या मूलं सार्वत्रिभागतः॥४०॥ अङ्गुष्ठमूलाद् वेदांशं मणिबन्धान्तमेव हि । अध्य/शं धनं पाणितले पाणी त्रिपार्श्वकम् ॥ ४१ ।। तलाने वाङ्गुलं कुर्याद् घनं सर्वेषु सम्मतम् । अङ्गुलीनामधस्तात् तु मांसलं त्वर्धमात्रतः ॥ ४२ ॥ द्विभागं पाणिहस्तस्य शुक्लोदरविशालकम् । शेष मध्यतलं निम्नं भूतवेदाग्निभिर्यवैः ॥४३॥ सूक्ष्मरेखा लिखेत् तस्मिन् यवाभाश्चक्रशूलवत् । पद्माभं वाङ्कुशाभं वा यूकागाधतलान्वितम् ।। ४४ ॥ वृत्ताभापेक्षिताङ्गेषु व्यासे पञ्चविभाजिते । एकांशं परिगृह्यात्र विस्तारत्रिगुणान्वितम् ॥४५॥ तत्तदङ्गपरीणाहं सुमतिः सम्प्रकल्पयेत् । कर्णोद्धे शिरसो नाहं साष्टत्रिंशाङ्गुलं भवेत् ॥ ४६॥ कर्णोद्धे तु शिरस्तारं यवोनहादशाङ्गुलम् । कर्णयोः पूर्वनाहं तु द्वाविंशद्भिरथाङ्गुलैः॥४७॥ कर्णयोः पृष्ठनाहं तु भान्वङ्गुलमुदाहृतम् । तयोर्मध्यस्थभागं तु कर्णस्थितिरुदाहृता ।। ४८॥