________________
उद्यमवचतालम् ]
पञ्चमोऽध्यायः 4:1
तत्तदङ्गुलविस्तारं वेदांशैर्विभजेत् पुनः । त्रिभागमङ्गुलाग्रोच्चमशेषं वा नखेतरे ॥ २७ ॥ त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् । सपाद सप्तभागं तु कोर्परे व्यासमुच्यते ॥ २८ ॥ पादोनरसभागं तु प्रकोष्ठे मध्यविस्तृतिः । पादोनचतुरंशं तु मणिबन्धविशालकम् ॥ २९ ॥ सप्तांशं तत्तलायामं सार्धाङ्गैर्मध्यमाङ्गुलिः । सपादभूतभागं ह्यप्यनामिकाङ्गुलायतम् ॥ ३० ॥ यवसंयुक्तपश्चांशं तर्जन्यङ्गुलिकायतम् । सपादवेदभागं तु दीर्घमन्याङ्गुलइये ॥ ३१ ॥ अङ्गुष्ठमूलविस्तारं सपादांशमुदाहृतम् । तर्जनीमूलमेकांशं मध्यायां यवनन्दकम् ॥ ३२ ॥ अनामिका तर्जनीवत् कनिष्ठा षड्यवोन्मिता | तत्तन्मूलविशालस्य षोडशांशविवर्जितम् ॥ ३३ ॥ तत्तदग्रविशालं तु तत्तारे रसभाजिते । पञ्चाशं नखविस्तारं शिष्टाधं पार्श्वमांसलम् ॥ ३४ ॥
सपादतारं सर्वेषां नखानामायतं तथा । वृत्तायतं नखाकारं करयोः पादयोस्तथा ॥ ३५ ॥ नखहि गुणमानं तदग्रपर्वायतं तथा । अङ्गुष्ठमूलपर्वस्य दीर्घ सप्तदशैर्यवैः ॥ ३६ ॥ तथैवाष्टादशय वैर्मध्यमामूलपर्वकम् ।
तर्जन्यनामिक मूलपर्व षोडशभिर्यवैः ॥ ३७ ॥