________________
शिल्परले तदधः कटिपार्धान्तं सार्धविंशांशकैः स्मृतम् । पादोनमनुभागं तदूरुमध्यविशालकम् ॥ १६ ॥ जानुदेशस्य विस्तारं पादहीननवांशकम् । सपादपश्चभागं तु जङ्घामूलविशालकम् ॥ १७ ॥ पादोनसप्तभागं तु जङ्घामध्यविशालकम् । सयोर्मध्यततं भागैर्नवभिः संप्रकीर्तितम् ॥ १८ ॥ पादोनपञ्चभागं तु नलकायास्तु विस्तृतम्। त्रियवाधिकपञ्चांशं गुल्फाक्षव्यासमानकम् ॥ १९ ॥ अक्षादातलतुङ्गं तु सार्धवेदाङ्गुलं स्मृतम् । पाणितारं च तत्तुल्यं पार्णरुच्चं तदेव हि ॥२०॥ तलमध्यं षडंशं तु यवद्वयसमन्वितम् । तलाग्रविस्तृतं सप्तभागभित्येवमीरितम् ॥ २१ ॥ द्वियवाधिकवेदांशं पादाङ्गुष्ठामुलायतम् । यवोपेतद्वयांशं तु तस्य विस्तारमेव हि ॥ २२ ॥ तारा, नखविस्तारं ततः पादोनमायतम् । त्रियवोपेतवेदांशं तर्जन्यायाममानकम् ॥ २३ ॥ पादोनवेदभागं तु दीर्घ मध्यमिकाङ्गुले । यवोपेतामिभागं तदुपान्त्याङ्गुलिकायतम् ॥ २४ ॥ सार्धपक्षांशमानं तु कनिष्ठाङ्गुलिकायतम् । देशिन्यादि क्रमात् तारं नवसप्तासप्तभिः ॥ २५ ॥ षड्भिरशैः पृथक् तत्र कल्पयेच्छिल्पवित्तमः । नखमानं स्वतारार्धमित्याधुत्तप्रकारतः ॥ २६ ॥