________________
उत्तमदर्शतालम्] पञ्चमोऽध्यायः ।
३५ हिक्कासूत्राद्धृदयान्तं हृदयान्नाभिसीमकम् । नाभेस्तु मेढ़मूलान्तं विश्वांशत्रियवैः पृथक् ॥ ५ ॥ मेदमूलगतं तिर्यक्सूत्रं मध्याभिधं स्मृतम् । मध्यसूत्रादूरुदीर्घ सप्तविंशांशकैः स्मृतम् ॥ ६ ॥ तस्माद् वेदाङ्गुलं जानुतुङ्गं जङ्घोरुमानवत् । तस्मात् पादतलोत्सेधं युगांशं परिकीर्तितम् ॥ ७ ॥ अङ्गुष्ठाग्रात्तु पार्ण्यन्तं तलं सप्तदशाङ्गुलम् । हिक्कासूत्रादधो बाहुदीर्घमृक्षाङ्गुलं तथा ॥ ८ ॥ कोर्परायाममश्व्यंशमेकविंशांशकं ततः। प्रकोष्ठस्यायतं तस्मात् सार्धत्रयोदशांशकम् ॥ ९ ॥ मध्यागुलाग्रपर्यन्ततलायामं करस्य तु । सार्धभान्वङ्गुलं तारं मुखे तस्यान्तविस्तृतिः ॥ १०॥ सार्धत्रयोदशैरंशैीवाग्रे साधनन्दकैः ।। ग्रीवामूले दशांशैस्तु विस्तारं परिकल्पयेत् ॥ ११ ॥ हिक्काधो बाहुसीमान्तं चत्वारिंशांशमेव हि । सार्धद्वाविंशदंशं तु कक्षयोरन्तरं तथा ॥ १२ ॥ नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् ! एकविंशतिभागं तु स्तनदेशे तु विस्तृतिः ॥ १३ ॥ हृदयावधिविस्तारमेकोनविंशदङ्गुलम् । कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् ॥ १४ ॥ एकोनविंशदंशं तु श्रोणीदेशविशालकम् । तत्र मेदविशालं तु द्वियवाधिकमङ्गुलम् ॥ १५ ॥