SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने आयामेन शिवांश कस्य रचयेन्नाहेन वा सम्मितं व्यासेनापिच मन्त्रलिङ्गविषये तत् कर्मविम्बं शिवे । भक्त्वा षोडशधा पुनस्त्रयमिदं रुद्राङ्कशैलाशुगाग्न्यंशैर्वाधिकमूनितं च कुहचित् कुर्यात् तदौचित्यतः ॥३१॥ सौवर्णे... I ३२ ॥ ― उत्तरः लिङ्गमानेन बिम्बवं कथ्यते पूर्वशास्त्रतः । पूजांशद्विगुणा वा स्यात् तुङ्गे द्वात्रिंशदंशिते ॥ ३२ ॥ तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा । त्रिभागाधिकविंशांशमेकविंशांशमेव वा ॥ ३३ ॥ एकोनविंशतिर्वाथ नृपांशं विश्वभागिकम् | रुद्रांशं नन्दभागं वा सप्तांशं पञ्चभागिकम् ॥ ३४ ॥ स्थूलदेशस्य लिङ्गानां पूर्वोक्तपरिणाहतः । तुल्यं विस्तारतो वाथ पूर्वोक्तक्रमतो इयम् ॥ ३५ ॥ अंशीकृत्य यथोक्तांशैः कौतुकोचं करोतु वा । पूजांशोचं तु नाहं विततिमपि पृथग् ह्यष्टभागं तु कृत्वा तैरेवांशैस्त्रिभेदैर्गुणशरमुनिनन्दांशरुद्रांशकैर्वा । न्यूनं चैवाधिकं वा सममपि कथितं लिङ्गतो बेरमानं भेदैर्गीर्वाणसंख्यैरिति विदितमभूत् पूर्वशास्त्रान्तरेषु॥ ३६ ॥ अथ तालनियमः उत्तमं दशतालाख्यं चतुर्विंशच्छताङ्गुलम् | मध्यमं दशतालं स्याद् विंशाधिकशताङ्गुलम् ॥ ३७ ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy