________________
मतिमोत्सेधः] चतुर्थोऽध्यायः ।
अधमं दशतालं तु कलाधिकशताङ्गुलम् । तालं प्रत्ययमेवं तु क्रमाद् वेदांशहानितः ॥ ३८॥ उत्तमं नवतालादि बिम्बमानमुदाहृतम् । उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वराः ॥ ३९ ॥ मध्यमं दशतालेन तथैवोमासरस्वती । उषा भूमिश्च दुर्गा च लक्ष्मीज्येष्ठा च मातरः ॥ ४० ॥ मध्यमं दशतालेन वा त्रिमूर्तीन् प्रकल्पयेत् ।। कन्यसं दशतालेन चन्द्रादित्यावथाश्विनौ ॥ ११ ॥ आर्य शतमखं चैव चण्डेशं क्षेत्रपालकम् । महर्षीणां गणांचैव तेषां देवीश्च कारयेत् ॥ ४२ ॥ उत्तम नवतालेन विद्येशान् लोकपालकान् । वसूंश्च दिक्पतींश्चैव अस्त्रमूर्तीश्च गुह्यकान् ॥ ४३ ॥ देवानन्यांश्च देवीस्ताः कारयेल्लक्षणान्वितम् । मध्यमं नवतालेनाप्यष्टमूर्तिमरुद्गणान् ।। ४४ ॥ यक्षासुरगणांश्चैव करोतु शुभलक्षणम् । कन्यसं नवतालेन विद्याधरगणांस्तथा ॥ ४५ ॥ असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च। अष्टतालेन मांस्तु पिशाचाः सप्ततालतः ॥ १६ ॥ षष्ठतालेन कुब्जाश्च तत्तच्छ्रेष्ठान्तराधमाः। तत्तदुत्तममध्यादिभेदेनैव भवन्त्यतः ॥ ४७ ॥ पश्चतालोचमेनैव विघ्नेशं स्कन्दमेव च । वामनं च करोत्वस्य भूतान् मध्येन वाधमात् ।। ४८॥