SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रतिमोत्सेधः] चतुर्थोऽध्यायः । अङ्गलादन्यबिम्बोच्चे सवेदाशीतिभाजिते । एकांशं रोपयेत् तत्तु विप्रजात्यर्हकं स्मृतम् ॥ २१ ॥ द्विभागाधिकषष्टयंशैर्भङ्क्त्वैकांशसमन्वितम् । नृपजात्यर्हकं बिम्बमथार्कद्विगुणांशिते ।। २२ ॥ एकांशारोपणं वैश्ययोग्यं बिम्बमिति स्मृतम् । षोडशांशेऽशमारोप्यं बिम्बं शूद्रस्य सम्मतम् ॥ २३॥ एवं जात्यंशसंयुक्तबिम्बमानेन पूर्ववत् । योन्यादीनि समानीय चिन्तयेत्तु शुभाशुभम् ॥ २४ ॥ गृहोक्तमार्गमाश्रित्य विशेषः कथ्यतेऽत्र हि । यद्योनिनिलयेऽर्चायां तद्योनिः स्यान्नाचान्यथा ॥ २५ ॥ कर्तुश्च जन्मनक्षत्रान्नृपवास्तुदिनात् तथा । गुणयेद् बिम्बतारान्तं तेन लोकप्रसिद्धितः॥ २६ ॥ विचार्य गणयोगादि शोभनं तु परिग्रहेत् । भौमवारो विवर्यः स्यान्मध्यमौ सौरिसूर्ययोः ॥ २७ ।। भानुवारादिभिर्युक्तं विशाखादि चतुश्चतुः। वियोगं मरणं नाशममृतं च यथाक्रमम् ॥ २८ ॥ सर्वेषामपि वृद्धयर्थं जात्यंशारोपणं स्मृतम् । तस्मात् तदनु कर्तव्यमायादीनां तु चिन्तनम् ॥ २९ ॥ अथ कौतुकोच्चम् । सकले सति मूलबिम्बके निगमांशोन्मिति कर्मबिम्बकम् । सकलाकृति निष्कलेऽपि वा स्थितमासीनमतः प्रकल्पयेत् [॥ ३०॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy