________________
शिल्परले
[उत्तरभागः अथ वा कर्तृतुङ्गं तु नवभागविभाजिते । एकैकांशकहीनेनाप्यष्टधा सकलोदयम् ॥ १२ ॥ मानाङ्गुलैः पुरा प्रोक्तैस्तथा मात्राङ्गुलैरपि । सप्ताङ्गुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥ १३ ॥ त्रयोविंशाङ्गुलं यावत् तावद् बिम्बोदयं स्मृतम् । सर्वेषामपि बिम्बानां प्रोक्तानां बहुधात्र हि ॥ १४ ॥ उष्णीषात् पादपर्यन्तं तुङ्गमापादमूर्धकम् । अथ बहुबेरे
शम्भो साग्रमानं वा हनुसीमान्तमेव वा ! १५।। (ते कांस्ये मथाभिघार्य हविषा मूलेन लिङ्गाकृति
कृत्वाथा दशरुद्रदिग्वसुदो भिन्नैर्मतं चाङ्गुलैः । विप्रादिष्वथ वर्णभेदविहितं साज्यं दधि क्लेदितम् ?)
............. ॥१६॥ तयोर्मध्येऽष्टधा भङ्क्त्वा नवधा शक्तितुङ्गकम् । सर्वेषामपि पाङ्किस्थितशक्त्युदयं तथा ॥ १७ ॥ बहुबेरविधानमूलबिम्बं सुसमं द्वारसमुच्छ्रयेण कार्यम् । चरणांशविवृद्धमर्धवृद्ध पादोनद्विगुणं द्विसंगुणं च ॥ गृहे त्वात्मार्थबिम्बानां मान मात्राङ्गुलेन तु । कर्तव्यमन्यथाचेत्तु वक्तव्यं कर्तृनाशनम् ॥ १९॥ अङ्गुलैर्निर्मितं बिम्बं सर्वजात्यहकं शुभम् । अङ्गुलीनिर्मिते बिम्बे जात्यंशं नातिरोपयेत् ॥ २० ॥