________________
प्रतिमोरसेषः) चतुर्थोऽध्यायः । क्लप्तानीत्युदितानि पञ्च मनुंबिम्बान्यत्र गर्भालये
भक्ते लोकशरेक्षणैईिगुणभूम्यंशग्रहात् त्रीणि च ॥१॥ गर्भगेहे ततो नन्दभागे नन्दविधोन्नतम् । अथवा गर्भगेहे तु त्रिनवांशविभाजिते ॥ २ ॥ एकांशादेकवृद्ध्या तु सप्तविंशतिधा पुनः। अथवाष्टादशांशे तु गर्भगेहविशालके ॥ ३ ॥ तावता बिम्बमानोच्चमेकादेकांशवर्धनात् । गर्भहारस्य चोत्सेधं गजभागविभाजिते ॥४॥ पञ्चांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् । अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानतः ॥ ५॥ अधमोत्तमयोर्मध्यं वसुभागविभाजिते । नवधा सकलोत्तुङ्गं द्वारमानाद् विधीयते ।। ६ ।। अथवा द्वारतुङ्गं तु सप्तविंशतिभाजिते । एकैकांशविहीनेन बिम्बोच्चं त्र्यक्षभेदतः ॥ ७ ॥ एवं हि द्वारमानेन षट्त्रिंशद्भेदतोदितम् । अथाधिष्ठानमानेन एवमेवाद्धिमानतः ॥ ८ ॥ बाह्यप्रासादमानेन गर्भगेहोक्तवत् स्मृतम् । एकादिनवहस्तान्तं नवधा हस्तमानतः ॥ ९ ॥ तालादिदशतालान्तं तालमानेन कल्पयेत् । कर्तुश्च हृदयान्तं वा स्तनान्तं बाहुसीमकम् ॥१०॥ हन्वन्तं चास्यसीमान्तं नेत्रसूत्रावसानकम् । कर्तुश्चोदयतुल्यं वा यजमानवशादिमे ॥ ११ ॥