________________
लक्षणोद्धारः] तृतीयोऽध्यायः ।
(वि ? द्वि)मुखं चारिनाशाय स्थाप्यं शैलवनादिषु । सर्वेषां मुखलिङ्गानां निर्गमः स्यात् पृथक् पृथक् ॥४२॥ प्रविष्टा कन्धरा कार्या विष्णुभागोपरि स्थिता । हस्तादिपञ्चहस्तान्तं मुखलिङ्ग प्रकल्पयेत् ॥ ४३ ॥ अतः परं न कुर्वीत मुखलिङ्ग शुभेच्छया । पूजांशाध त्रिभागैकं गाढं वा स्फाटिके मतम् ॥ ४४ ॥ समं त्रिपादमध वा पूजांशात् तस्य विस्तृतिः। सधारं वाथ वृत्तं वा लिङ्गं स्यात् स्फाटिकं स्मृतम् ॥४५॥ शिरसो वर्तनं प्राग्वद् ब्रह्मसूत्रं न भावयेत् । ब्रह्मसूत्रं विनाप्येतत् तेजोद्रव्यं वरप्रदम् ॥ ४६ ॥ स्फटिकादिशिलाद्यैस्तु प्रतिमाकरणे पुनः । वज्रं शस्त्रं प्रकर्तव्यं कारयेत् तेन शाणया ॥ ४७ ॥ दारणच्छेदनादौ तु कृष्णलोहशलाकया।। शाणाचूर्णेन तोयेन यथायुक्ति समाचरेत् ॥ ४८ ॥ स्फाटिकं शकलं वाथ दग्ध्वा चूर्णीकरोत्वथ । पिष्ट्वा तचूर्णमम्भोभिस्तत् पिष्टं कदलीदले ॥ १९ ॥ विन्यस्याङ्गारराशौ तु पाचयेन्मोदकं यथा । तस्मिन्नग्निनिभे जाते मन्दमादाय चूर्णयेत् ॥ ५॥ तच्चूर्ण किंशुकाक्लुप्तफलकायां समाहितः । किश्चिदुधूलनं कृत्वा तल्लिङ्गं तेन मर्दयेत् ॥ ५१ ॥ यावत् सुलक्षणता तद्वत् प्रभाजालसमुद्गतिः । जायते तावदेवं हि मर्दयेत् स्फाटिकादिकम् ॥ ५२ ॥ १. 'न', २. 'ट्वा' ख. पाठः.