________________
शिल्परत्ने
(उत्तरभागः कनिष्ठवेसरस्यैवं लक्षणोद्धारणं स्मृतम् । छत्राभमस्तके लिङ्गे सूत्राग्रं स्याद् गजाक्षवत् ॥ ३१ ॥ खण्डेन्दुमस्तके लिङ्गे सूत्राग्रं बुहुदोपमम् । लिङ्गाने त्रपुषाभे तु सूत्राग्रं कुक्कुटाण्डवत् ॥ ३२ ॥ कुक्कुटाण्डशिरोलिङ्गे सूत्राग्रं छत्रसन्निभम् । सामान्येन तु लिङ्गानां सूत्राग्रमथ कथ्यते ॥ ३३ ॥ कदलीमुकुलाभं वा सरोजमुकुलाकृति । अश्वत्थपत्रसदृशं सामान्यं हि यवोपमम् ॥ ३४॥ अत्यष्टयंशे तु लिङ्गाभे भागं त्रेधा विभज्य तु । मध्यसूत्रततिांशं तदर्ध पक्षसूत्रयोः ॥ ३५ ॥ कनिष्ठवेसरस्यैवं लक्षणोद्धार ईरितः ॥ ३६॥
अथ मुखलिङ्गम् । यथोक्ताव्यक्तलिङ्गेषु शिवांशे दशभाजिते। अश्विनेत्राग्निभागैः स्यात् स्कन्धः कण्ठस्तथाननम् ॥३७॥ उष्णीषोंऽशस्तु मकुटं द्वयंशमूर्ध्वं तु भागतः । भागेन मुखविष्कम्भो विस्तृतश्चोर्ध्वलिङ्गवत् ॥ ३८ ॥ ललाटकण्ठभूनेत्रघ्राणगण्डमुखादिकम् । मानोन्मानप्रमाणेन सर्व सकलवत् स्मृतम् ॥ ३९ ॥ अथैकत्रं चतुर्वकं ग्रामादिष्वेव विन्यसेत् । द्विवक्र पर्वतेऽरण्ये परराष्ट्रान्तिकेऽपि च ॥ ४०॥ स्थापयेत् तदरिध्वंसं विदधाति स्वलक्षणम् । चतुस्त्रयेकानन भूत्यै पञ्चास्यं चाभिचारकम् ॥ ४१ ॥