________________
समणोद्धारः]
तृतीयोऽध्यायः । युतिः स्याद् द्राविडे सू (त्रे ? त्र)व्यासः स्वांशार्धतः समः। तदर्ध पक्षसूत्रस्य व्यासागाधे च पूर्ववत् ॥ २०॥ षोडशांशे शिवाया सूत्रायामो दशांशतः। जांशश्च चतुर्भागः स्यादधश्च द्विभागिकः ॥ २१ ॥ मुकुलाकारमारभ्य पार्श्वसूत्रद्वयं कमात् । द्वयंशं विहाय पृष्ठे तु युतिर्युक्ता तयोः पुनः ॥ २२ ॥ अथवा षोडशांशेऽधोभागं वेदांशमूर्ध्वतः । त्यक्त्वा सूत्रं तु रुद्रांशैरुच्चात् प्राग्वद् युतिः स्मृता ॥ इत्थं द्राविडलिङ्गस्य लक्षणोद्धारणं स्मृतम् । अथ वेसरलिङ्गस्य त्रिपञ्चांशे शिवोच्छ्रये ॥ २४ ॥ नालायामो दशांशः स्याद् वस्वंशप्रभृति क्रमात् । सूत्रयोर्लम्बनं कुर्याद् भूतवेदगुणांशकैः ॥ २५ ॥ तयोर्युतिर्भवेच्छ्रेष्ठे विष्कम्भः षोडशांशतः । मध्येऽशे वसुभागोच्चे वेदांशैर्नालमुन्नतम् ॥ २६ ॥ ऊर्ध्वं त्रयोंऽशाः शोध्योऽशो गुणभागात् प्रभृत्यधः। सूत्रे तु लम्बयेत् त्रिद्विभागेषु स्यात् तयोर्युतिः॥२७॥ गृहीतांशे त्रिधा भक्ते व्यासो भागद्वयेन तु । एवं मध्यममुक्तं स्याल्लिङ्गे वेसरसंज्ञिते ॥ २८॥ कनिष्ठवेसरस्याथ द्वादशांशे शिवोच्छ्रये । अधोंऽशमंशा(दू ?वू)चे तु सूत्राया(मे ? मो) नवांशतः॥ सङ्गमः पूर्ववज्ज्ञेयो भागे वै षोडशांशिते । भागेन सूत्रन्यासः स्यात् तदर्ध प्रक्षसूत्रयोः ॥ ३ ॥