________________
शिल्परले
[उत्तरभागः रेखा दक्षिणवाममध्यरचिता ब्रह्माजितानङ्गजि
दैवत्यश्चतुरश्रकादिशिवलिङ्गांशाश्च तद्देवताः ॥ १० ॥ प्रथमं नागरलिङ्गे षोडशभागं कृते शिवायामे । षड्भूतवेदभागांस्त्यक्त्वोर्चे कन्यसाधुदयम् ॥ ११ ॥ एवं त्रिकमुत्सेधं बुद्ध्वा च त्र्यंशकास्तु सर्वेषाम् । विष्ण्वंशादिमुखे हे सूत्रे संलम्बयेत् पार्थे ॥ १२ ॥ पृष्ठे तयोर्युतिः स्याडीने वेदाग्निदोषु । मध्ये भूतवनानिलपांशेषु (१)युतिस्तयोः पृष्ठे ॥ १३ ॥ श्रेष्ठे षड्भूतवनानलपांशेषूदिता तु युतिः । तेषु ग्रीवैकांशं त्रियशं सूत्रविष्कम्भम् ॥ १४ ॥ यावदधोविष्ण्वंशं प्रोक्तोत्सेधे नयेत् तु समम् । एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् ॥ १५ ॥ पादोन भागमधु वा ब्रह्मसूत्रविशालता । भवेद् विष्ण्वंशपर्यन्तं ब्रह्मसूत्रस्य तु स्थितिः ॥ १६ ॥ तदध पार्श्वसूत्रस्य लेखा मध्यभवा भवेत् । तथा द्राविडलिङ्गोच्चे त्रिपञ्चांशे क्रमेण तु ॥ १७ ॥ नन्ददिग्रुद्रभागोचं हीनादुञ्चमिहोदितम् । सप्ताष्टनवभागे(स्यात् ? भ्यः) क्रमात् सूत्रे तु लम्बयेत् । नीचे युगाग्निद्वितये मध्ये बाणयुगाग्निषु । द्वयोश्वाथोत्तमे लिङ्गे रसेषु श्रुतिभागिषु ।। १९ ॥