________________
शिल्परत्ने
[उत्तरभागः पीठे सलक्षणे लौहे सौधे वा स्थापयेच्छुभे । कोट्यस्तिस्रस्तु लिङ्गाद्रौ तिस्रः श्रीपर्वते स्थिताः॥१३५॥ तिस्रस्तु कालिकागते तिनश्चाप्यमरेश्वरे । कन्यातीर्थे महेन्द्राद्रौ नेपाले कन्यकाश्रमे ॥ १३६ ॥ तेष्वेकैका स्थिता कोटिरेवं कोट्यस्तु षोडश । सपीठं वाप्यपीठं वा सप्रासादमवर्तनम् ॥ १३७ ॥ सर्वसङ्करहीनं तत् सर्वेषां भुक्तिमुक्तिदम् । पूजयेद् बाणलिङ्गं तत् प्रतिष्ठाप्य विधानतः ॥ १३८ ।। अन्यान्यपि च लिङ्गानि नद्यब्धिगिरिकान्यपि । अकृतानि विशिष्टानि देवदैत्यमुनीश्वरैः ॥ १३९ ॥ दिव्यैरन्यैः सिद्धमुख्यैः पूज्यान्येव हि बाणवत् ॥ १४ ॥ इति शिल्परत्ने उत्तरभागे लिङ्गलक्षणं नाम
द्वितीयोऽध्यायः ।।
अथ तृतीयोऽध्यायः।
अथ लक्षणोद्धारः। एवं लिङ्गं कारयित्वा महात्मा
शून्यं दोषैर्लक्षणैरन्वितं च । लक्ष्मोद्धारं कारयेद् वर्णयोग्यं ___ यत् प्रोक्तं तत्कमात् (स्वर्ग ? स्वाग)मेषु ॥१॥ लिङ्गमूनि क्षतं स्याच्चेद् राज्ञां कर्तुश्च नाशनम् । छिद्रं भार्या सुतं शवे वक्त्रे हन्याच्च शिल्पिनम् ॥ २॥